पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रत्यासत्तिं विशदशिखरोत्सङ्गभागे पयोदे
नीलस्निग्धे क्षणमुपगते पुण्डरीकप्रभस्य ।
शोभा काचिद्विलसति मनोहारिणी यस्य संप्र-
त्यंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६३ ॥

प्राप्योद्यानं पुरपरिसरे केलिशैले यदूनां
विश्रामार्थं क्षणमभिरतिं गोमतीवारि पश्यन् ।
उत्सर्पद्भिर्दधदिव दिवो वर्त्मनो बाजिसंघैः
सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६४ ॥

तत्रासीनो मुररिपुयशो निश्चलः किंनरीभिः
शृण्वंस्तिष्ठञ्च्छ्रुतिसुखकरं गीयमानं मुहूर्तम् ।
शब्दैरश्वस्खलितरवजैर्मेदुरैरम्बुराशेः
क्रीडालोलाः श्रवणपरुषैर्गजितैर्भीषयेस्ताः ॥ ६५ ॥

सान्द्रोन्निद्रार्जुनसुरभितं प्रोन्मिषत्केतकीकं
हृद्यं जातिप्रसवरजसास्वादमत्तालिनादैः ।
नृत्यत्केकामुखरशिखिनं भूषितोपान्तभूमिं
नानाचेष्टैर्जलदललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६६ ॥

तस्या हर्षादवकृतमहास्ते प्रवेशाय पुर्या
निर्यास्यन्ति प्रवरयदवः संमुखाः शौरिमुख्याः ।
या कालेऽस्मिन्भवनशिखरैः प्रक्षरद्वारि धत्ते
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६७ ॥

शश्वत्सान्द्रस्वतनुमहसं प्रोल्लसद्रत्नदीपा
मानप्रांशुं शिखरनिवहैर्व्योममार्गं स्पृशन्तः ।
गौरं ज्योत्स्नाविमलयशसा शुभ्रवर्णाः सुधाभिः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६८ ॥

यामुद्दामाखिलसुररिपून्माथिनो दानवारेः
साहाय्याय प्रथितमहसोऽध्यासते योधवर्याः ।