पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेवविजयम् । कृत्करीनिति । 'स्तम्बशकृतोरिन्' । फलेग्रहिरिति । फलानि गृह्णातीति । 'फलेपहिरात्म. भरिश्च' इति निपातितः॥ पृथ्व्या रक्षामभि(पि) विधतस्तं श्रियो वासभूमे- दैत्यश्रीणां प्रविचलयितुः स्वःश्रियाः स्थापकस्य । देवस्त्रीणामभिभवहृतः संभवोत्थं प्रमोदं विश्वस्यावेत्रिभुवनपतेयंत्रसीचाति कंसः ॥ ६९ ॥ कंसः विश्वस्य तं प्रमोदं त्रिभुवनपतेः संभवोत्थमवेज्ज्ञातवान् । अति व्यत्रसीच्च बि- भाय। पृथ्व्याः रक्षामपि विदधतः। श्रियः वासभूमेः। दैत्यश्रीणां प्रविचलयितुः कम्प- यितुः । स्वश्रियाः खर्गलक्ष्म्याः स्थापकस्य । देवस्त्रीणामभिभवहृतः परिभवं हरतः ॥- पृथ्व्या इति । 'यू व्याख्यौ नदी' इति नदीसंज्ञा 'यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्' इत्यङ्गसंज्ञा । 'आग्नद्याः' इति आटि वृद्धियणादेशौ । दैत्यस्त्रीणामिति । 'नेयडवस्था- नावस्त्री' 'वामि' इति विकल्पेन नदीसंज्ञायां नुट् । श्रियः, खश्रिया इति । 'डिति ह्र- स्त्रश्च' इति वा नदीसंज्ञायामाबृद्धियणादेशाः । अन्यत्रेयड् । वासभूमेरिति । विकल्पेन नदीसंज्ञाभावे 'शेषो ध्यसखि' इति विसंज्ञायां घेर्डिति' इति गुणः । त्रिभुवनपतेरिति । 'पतिः समास एवं' इति घिसंज्ञायां गुणः । स्त्रीणामिति । 'अस्त्री इत्युक्त्या परत्वानुट् ॥ कालिंमन्याः कुर्वदाशाः स्वधाम्ना गां द्यांमन्यां चोल्लसन्मालभारी । बिभ्यन्मृत्योर्भावनादाययोगाच्छौरे रूपं शश्वदीक्षांबभूव ॥ ७० ॥ मृत्योर्बिभ्यत् स भावनादाययोगात् शौरे रूपं शश्वद् ईक्षांबभूव प्रत्यक्षीकृतवान् । खधाम्ना आशाः कालिंमन्या आत्मनः काली मन्यमानाः कुर्वत् । गां भूमि द्यांमन्यां खर्गसात्मानं मन्यमानां कुर्वत् । उल्लसन्मालभारी उल्लसन्ती मालां बिभ्रत् ॥ ईक्षाब- भूवेति । 'दीय च' इति गुरुसंज्ञा । 'इजादेश्च गुरुमतोऽनृच्छः' इत्यामः । उल्लसन्माल- भारीति । 'इष्टकेषीकामालानां चिततूलभारिघु' इति हस्खः । 'इष्टकादिभ्यस्तद- न्तस्यापि प्रहणम्' कालिंमन्या इति । 'जानपदकुण्डगोणस्थलभाजनागकालनीलकुशका- मुककबराबृत्यमन्त्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु' इति डोषि काली। 'आत्ममाने खश्च'। 'खियनव्ययस्य इति हवः । अरुषिदजन्तस्य मुम्' इति मुमा हखो न बाध्यते । धांमन्यामिति ! 'इच एकाचोऽम्प्रत्ययवच' इत्यमागमो द्वितीयैकवचनवञ्च स्यात् । 'औतोऽम्शसोः ॥ दाण्डां क्रीडां ये च मौष्टामकुर्वञ्छ्यैनंपातां शश्वदाखेटकेलीम् । ये वाचाटास्तेऽपि वाचंयमानां योग्यामापुः सात्त्विकीमेव वृत्तिम्।।७१॥ तेऽपि जनाः सात्त्विकीमेव वृत्तिमापुः । के ये दाण्डो मौष्टां च क्रीडामकुर्वन् । दण्डः प्रहरणमस्या क्रीडायाम् । मुष्टिः प्रहरणमस्यां क्रीडायाम् । ये च शश्वदाखेटकेलीमकुर्वन् ।