पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। अपिस्फवत्पुण्यकृतां प्रमोदं महोत्सवं प्रादित बल्लवेभ्यः । भिक्षाचरोपाहृतमाजिजीवच्छौरेर्मुदं रोहिणिपुत्रजन्म ॥ ६६ ॥ रोहिणिपुत्रजन्म रोहिणीपुत्रस्य रामस्य जन्म पुण्यकृतां प्रमोदं हर्षमपिस्फवदवी. वृधत्, बल्लवेभ्यो गोपेभ्यो महोत्सवं प्रादित, शौरेर्मुदमाजिजीवत् । भिक्षाचरोपाहृतं च- रणेन भिक्षामर्जयद्भिः कथितम् ॥-भिक्षा इत्यत्र इकारस्य 'हखं लघु' इति लघुसंज्ञा प्रा- नोति । 'संयोगे गुरु' इति गुरु संज्ञैव भवति । 'आकडारादेका संज्ञा' इति नियमात् । 'गुरोश्च हलः' इत्यप्रत्ययः। भिक्षासेनादायेषु च' इति चरेष्टः। अपिस्फवदिति । 'स्फायी वृद्धी' इत्यस्माणिचि 'स्कायो वः' इति यकारस्य वकारे 'स्फावि' इत्यत्मानुडि च्लेश्चडि 'णौ चडथुपधाया ह्रस्वः' इत्युपधाह्रखे 'चड़ि' इति द्वित्वे 'पूर्वोऽभ्यासः' इत्यभ्याससंज्ञायां 'हलादिः शेषः' 'शपूर्वाः खयः' इति सकारलोपे 'अभ्यासे चर्च' इति पकारा- देशे 'सन्वल्धुनि चड्परेऽनग्लोपे' इति सन्वद्भावे 'सन्यतः' इत्यभ्यासाकारस्येत्वम् । आजिजीवदिति । आड्पूर्वाज्जीवधातोर्णिचि लुडि चडि 'भ्राजभाषदीपीवमीलपीडामन्य- तरस्याम्' इत्युपधाहखाभावपक्षः। बवेभ्य इति । 'सुपि च' इति दीर्धे 'बहुवचने झल्येत्' इत्येत्त्वे च प्राप्ते 'विप्रतिषेधे परं कार्यम्' इति परत्वादेत्त्वमेव स्यात् । रोहिणि- पुत्रजन्मेति । 'दयापोः संज्ञाछन्दसोबहुलम्' इति ह्रस्वः ॥ ज्वरपूर्वसरा रुजः प्रशेमुः कलहाः बैणपुरःसराश्च गोष्टे । भुजगेशि निशाकराभिरामे द्विषतां शोककरे तदावतीर्णे ॥ ६७ ।। तदा भुजगेशिअनन्ते अवतीर्णे,गोष्ठे ज्वरपूर्वसरा ज्वरादयो रुजो रोगाः प्रशेमुः शान्ताः त्रैणपुरःसराः कलहाश्च प्रशेमुः । स्त्रैणः स्त्रीप्रियो जनः । निशाकराभिरामे चन्द्रवन्मधुरे। द्विषतां शोककरे शोककरणशीले । पुरःसर इति । 'पुरोऽप्रतोऽग्रेषु सर्तेः' इति टः। पूर्वसरेति । 'पूर्वे कर्तरि' इति टः । शोककर इति । 'कृओ हेतु- ताच्छील्यानुलोम्येषु' इति टः । निशाकरेति । 'दिवाविभानिशाप्रभाभास्कारान्तानन्ता- दिबहुनान्दीकिलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसख्याजङ्घाबाह्वयत्तद्धनुररुःषु' इति टः। बणेति । 'संग्रामे प्रयोजनयोद्धभ्यः' इति नन् । भुजगेशीति । 'ईश ऐश्वर्य' क्विम् ।। यो वैरकारः स्वयमेव गोष्वभूत्तॄणेढि नो स स्म शकृत्करीनपि । नासीदकालेऽप्यफलेग्रहि?मस्तदर्तवः कर्मकरा इवाभवन् ॥ ६८ ॥ गोषु यो वैरकारोऽभूत् स खयमेव शकृत्करीनपि नो तृणेढि स्म वत्सानपि न हि- सितवान् । द्रुमोऽकालेऽपि अफलेग्रहिन्ध्यो नासीत् । तदा ऋतकः कर्मकरा वैतनिका इबाभवन् ॥ कर्मकरा इति 1 'कर्मणि भूता' इति टः। वैरकार इति । 'न शब्दश्लोककलगायावरचाटुसूत्रमन्त्रपदेषु' इति टप्रतिषेधे 'कर्मण्यण् । श- १. 'अविस्फचत्' इत्यादशैं.