पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेवविजयम् । उक्तिभिरप्रमादमनवधानमुद्बोधयन् । अशीतकः [ न ] शीतकोऽलसः । तथापि तस्य मनः पराचकार अभ्यभवत् ॥-उद्बोधयनिति । 'बुधयुधनशजनेसुद्रुसुभ्यो णेः' इति परस्मैपदम् । अतिष्ठिपदिति । 'अणावकर्मकाञ्चित्तवल्कर्तृकात्' इति परस्मैपदम् ॥ "द्रोहिक्षिपाकर्मठसुप्रवेष्टे गर्भ गते शंकरयाच्बयाजे। स्तम्बरमा भूवलयस्य धायाः प्रावीवृतन्द्राड्मदवारिधाराः ।। ६३ ।। अजे शंकरयाच्या गर्भ गते भूवलयस्य धायाः भूवलयं दधतः स्तम्बरमा दिग्गजा द्राक् मदवारिधाराः प्रावीवृतन्प्रवर्तितवन्तः । द्रोहिक्षिपाकर्मठसुप्रवेष्टे द्रोहिणो द्रोहशी- लास्तेषां क्षिपायां निरासे कर्मठाः कर्मशूराः शोभनाः प्रवेष्टा भुजा यस्य ॥--स्तम्बरमा इति । 'स्तम्बकर्णयो रमिजपोः' 'हस्तिसूचक्योरिति वक्तव्यम्' इत्यच् । तत्पुरुषे कृति बहुलम्' इत्यलुक् । शंकरेति । 'शमि धातोः संज्ञायाम्' इत्यच् । कर्मठ इति । 'कर्मणि घटोऽठच् ॥ बिलेशयेशोऽपि भरावभुनः किमप्यगर्वायत हर्षमाणः । मुद्द्युतच्चेतसि देवतानामनर्तयन्ताप्सरसश्च तानि ॥ ६४ ॥ विलेशयेशोऽनन्तोऽपि किमप्यगर्वायत गर्ववान् अभवत् । भरावभुन्नः । हर्षमाणो हृष्टमनाः । देवतानां चेतसि मुत् संतोषोऽद्युतद् दीप्यते स्म । तानि दैवतानि कतैणि अप्सरसोऽनर्तयन्त नर्तितवत्यश्च ॥-अनर्तयन्तेति । 'न पादम्याडयमाडयसपरिमुहरु- विवृतिवदवसः' इति परस्मैपदप्रतिषेधः । अगर्वायतेति । 'वाक्यपः' इति परस्मैपदमात्म- नेपदं च । अद्युतदिति । 'धुझ्यो लडि' इति वा परस्मैपदम् । बिलेशयेति । 'अधिकरणे शेतेः' इत्यच् । 'शयवासवासिष्वकालात्' इति वा सप्तम्या अलुक् । हर्षमाण इति । ता. च्छील्यवयोवचनशक्तिघु चानश् ॥ 7 बनेचरास्त्रैष्टुभजागतादिप्रगाथविज्ञा मुनयः सशिष्याः ! चिक्लप्सति स्वस्थितये हरौ तं विवृत्सदानन्दथवो ह्यवानयन् ।। ६५ ।। हरौ स्वस्थितये स्वर्गस्य रक्षाथै चिकृप्सति परिणन्तुमिच्छति सति मुनयः सशिष्यास्त- मवानयन् स्तुतवन्तः । वनेचराः त्रैष्ठभजागतादिप्रगाथविज्ञाः । प्रगाथो मन्त्रविशेषः । त्रिष्टुबादिरस्येति त्रैष्टुभः । जगती आदिरस्येति जागतः । विज्ञाः निपुणाः । विवृत्सदा- नन्दथवः विवृत्सन् वर्धितुमिच्छन् आनन्दथुः सुखं येषाम् ॥-'वृद्ध्यः स्यसनोः' इति वा परस्मैपदम् । चिक्लप्सतीति । 'लुटि च क्लपः' इति वा परस्मैपदम् । वनेचरा इति । 'चरेष्टः' । त्रैष्टुभजागतेति । 'सोऽस्यादिरिति च्छन्दसः प्रगाथेषु' इत्यण् । 'त्रिष्टुभम्' इति विवक्षिते 'छन्दसः प्रत्ययविधाने नपुंसकात्स्वार्थ उपसंख्यानम् ॥ खस्थितये इति । कृषिसंपद्यमाने चतुर्थी वक्तव्या ॥ १. एवं पाठे छन्दो विचिन्वम्.