पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेवविजयम् । हृदेखेति । 'हृदयस्य हल्लेख यदण् लासेषु' इति हृदादेशः । हृच्छोकेति । 'वा शोक- ध्योगेषु' इति वा हृदादेशः । महीयसीरूपतयेति । 'उगितश्च' इति हखाभावपक्षः । आप्येति । आड्पूर्वालयप् । 'विभाषापः' इति शेरयादेशाभावपक्षे 'णेरनिटि' इति गेर्लोपः। 'आदित्रयं ह्रखदीर्घप्लुतभेदानवात्मकम् । दीर्घलुततया षटकं परंतु द्वादशात्मकम् ॥ स्युः पञ्चविशतिः स्पर्शा अन्तस्थानां चतुष्टयम् । षष्माणश्च चत्वारो यमा बिन्दुविसर्गलाः ॥' इति षष्टिवर्णाः । दीर्घाश्चाष्टौ प्लुताश्चाष्टौ ह्रखाः पञ्च यमा नव । व्यञ्जनानि त्रयस्त्रिशत् त्रिषष्टिवर्णजातयः ॥ ३ ॥ धन्यं वितन्वन्नपरोधिभ्यः क्षीरोदमुच्चैरथ शाङ्गधन्वा । दुराजपद्योफ्लभङ्गहृद्या विधास्यमानः श्रुतिपद्धतीस्ताः ।। ५६ ॥ पन्मिश्रतीर्थान्बुकृतोदवासैर्जुष्यो मुनीन्द्रैः कलितोदकुम्भैः । 'सुरासुरग्रामणिदर्पदाता गर्भेऽभवद्देवकनन्दनायाः ।। ५७ ।। अथ शार्ङ्गधन्वा देवकनन्दनाया गर्भे अभवत् सांनिध्यमकरोत् । इतरोदधिभ्य क्षी- रोदमात्मसांनिध्येन उन्चैर्धन्यं भाग्यवन्तं वितन्वन् । ताः श्रुतिपद्धतीः दुराजपयोपलभङ्ग- हृद्या दुष्टा राजान एव पादौ विध्यन्त उपलास्तेषां भड्रेन हृदयस्य प्रिया विधास्यमानः । मुनीन्द्रर्जुष्यः सेव्यः । पन्मिशतीर्थाम्बुकृतोदवासैः पदमिश्र तीर्थाम्बु गङ्गाजलं तत्र कृत उदवासो यैः कलितोदकुम्भैः धृत उदकपूर्णकुम्भो यैः । मुरासुरप्रामणिदर्पदाता सुरा- मुरश्रेष्ठानां दर्पस्य प्रतिपादयिता खण्डयिता च ।।-पद्येति । 'विध्यत्यधनुषा' इति यत् । 'पद्यत्यतदर्थे' इति पादशब्दस्य पदादेशः । पद्धतीति । पादाभ्यां हन्यते इति कर्मणि क्तिन् । 'हिमकाधिहतिषु च' इति पदादेशः । बह्वादित्वात् हीषन्तो वा । पन्मिश्रेति । 'वा घोषमिश्रशब्देषु' इति पद्भावः । क्षीरोदमिति । 'उदकस्योदः संज्ञायाम्। 'संज्ञाया- मुत्तरपदस्योदकशब्दस्य उदादेशो भवतीति वक्तव्यम्' । उदवास उदधीति । पेषंवासवाह- नधिषु च' इत्युदकशब्दस्य उदादेशः । उदकुम्भेति । 'समानाधिकरणाधिकारे शाकपा- र्थिवादीनामुपसंख्यानम् । मध्यमपदलोपश्च' 'एकहलादौ पूरयितव्येऽन्यतरस्याम्' इत्यु- दादेशः । सुरासुरग्रामणिदर्पदाता इति 'इको ह्रखोऽडयो गालवस्य' इति वा ह्रखादेशः ॥ श्रमोदबिन्दुस्नपितास साल्पे हेतौ तथाप्यैदिधदात्मधर्मम् । भान्ती निकामं धृतवामनां तां तदादिति(ती)मन्वकरोदिवासौ ॥५८॥ सा अल्पे हेतौ अपि श्रमोदबिन्दुस्लपिता आस बभूव । उदकस्य बिन्दव उदबिन्दवः। तथापि आत्मधर्ममैदिधदवर्धयत् । तदा निकामं भान्ती शोभमाना असौ धृतवामनां तामदितीमन्वकरोदिव -ऐदिधदिति । “विभाषोपपदेन प्रतीयमाने इत्यात्मनेपदा- १. 'वृत्त्यादिषु 'विदुषीतरा' इत्युदाहृतम् । तन्निर्मूलम्' इति सिद्धान्तकौमुदी. एवं वे- दमपि वृत्त्यनुरोधेन बोध्यम्.