पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ काव्यमाला। इति तइ । स्त्रितरेति । 'स्त्यै ष्टथै शब्दसंघातयोः' । 'संस्त्याने त्यायते ट्' । टिलोपय- लोपी। डीम् । 'द्विवचनविभज्योपपदे तरबीयसुनौ' इति स्त्रीशब्दात्तरप्। नद्याः शेषस्यान्य- तरस्याम्' इति वा हस्खः । श्रेयस्क(स्त)राभिरिति । प्रकर्षयोगात् प्राक्त्रीत्वस्याविव- क्षायां सिद्धिः । डीपि तु 'उगितश्च' इति हखाभावपक्षे तखिलादिष्वाकृत्वसुचः' इति पुंवद्भावः॥ अन्यायतो रिक्थहरः क्षितीशो बिभ्यन्मृतेराशु पुनर्भगिन्याः । स स्त्रीतरायास्तनयान्सुषूतीननेष्ट पञ्चाप्यथ पञ्चभावम् ॥ ५५ ।। स क्षितीशः पुनर्भगिन्या द्वितीयादीन् पश्चाप्याशु जातमात्रान् तनयात् पञ्चभावं नि- अनमनेष्ट प्रापितवान् । एवं षड्ग जन्मोक्तम् । अन्यायतो रिक्थहरः अन्यायेन द्रव्यं हरन् । मृतेर्बिभ्यत् । स्त्रीतराया,अतिशयिताया स्त्रियाः सुध्तीन् ।--रिक्थहर इति 'हर- तेरनुधमनेऽच् ॥ यद्भागिभाजोऽपि हि जानते ताज्ञेयं यदष्टादश यश्च पाता। विद्या भुजङ्गाधिपतिर्महात्मा स देवकीसप्तमगर्भ आसीत् ।। ५३ ॥ स भुजलाधिपतिरनन्तो देवकीसप्तमगर्भ आसीत् । महात्मा महानात्मा यस्य । यद्भागिभाजो यद्भक्तान् भजन्तोऽपि यत् ज्ञेयं वस्तु तत् जानते हि । यश्च अष्टादश वेदोपवेदाङ्गोपाजलक्षणा विद्याः पाता रक्षिता ॥—जानत इति । 'अनुपसर्गाज्ज्ञः' इति तड् । महात्मेति । 'आन्महतः समानाधिकरणजातीययोः' इत्याकारः । अष्टादश इति । 'यष्टनः संख्यायामबहुव्रीह्यशीयोः । 'प्राक्शतादिति वक्तव्यम्' इत्याकारः ।। महीयसीरूपतयोदिता या हल्लेखसंसारभयापहनौं । या च त्रयोविंशतितत्त्वरूपा वणास्त्रिषष्टिश्च वपुर्यदीयम् ।। ५४ ॥ हृच्छोकहर्तुर्जगतां हरेः सा मायाज्ञया गर्भमथो अमुष्याः । तं रोहिणीमाप्य पुनः स्वजन्यै नन्दस्य दारानविशद्यशोदाम् ।। ५६ ॥ अथो सा माया हरेराज्ञया अमुष्यास्तं गर्भ रोहिणीमाप्य प्रापय्य पुनः खजन्यै आ- स्मनः प्रादुर्भावाय नन्दस्य दारान् यशोदामविशत् । या शास्त्रेषु महीयसीरूपतया उ- दिता उक्ता । अतिशयेन महती महीयसी । हल्लेखसंसारभयापही हृदयं लिखतीति ह. लेखः । या च त्रयोविशतितत्त्वरूपा । तत्र योगैमते चित्तं नाम(१)तत्त्वान्तरं नहि अत- नयोविंशतिको गणः । इति बोदेवः । त्रिषष्टिर्वणीश्च यदीयं वपुः । जगतां हृच्छोक- हर्तुः । हृदये शोको हृच्छोकः-त्रयोविंशतीति । 'तेस्त्रयः' । प्राक्छतादिति त्रयसादेशः। त्रिषष्टिरिति । 'विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्' इति वा त्रयसादेशः। 'प्राक्छतात्' १'कर्तुर्जगतां यदीयहरेः सा मायागर्भः' इत्यादर्शपा. २ 'योगतमे' इत्यादर्शपाठः ३ 'वोपदेव' इत्यादर्शपाठः.