पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बासुदेवविजयम् । र्पितपक्षपातात् मामुपेक्ष्य विष्णौ अर्पितात् पक्षपाताद्धेतोः परेतपिण्डादनविन्दजीवं द. रिद्रतया परेभ्य इतस्य पिण्डस्य अदनेन लब्धजीवनं भवतु । काकवत् काकसमूह इव तदपि अनन्ते आकाशे अर्पिता पक्षाभ्यां पातात् प्रेतपिण्डभक्षणलब्धजीवनं भ- वति । कीदृक् । आपूपिकादं अपूपसमूह आपूपिकम् । सुवितीर्णभैक्षं दत्तभिक्षासमूहम् । कैदार्यवत् । कैदार्य केदारसमूहः । कावचिकानुयातम् । कावचिकं कवचिनां समूहः । अश्वीयवत् । अश्वीयमश्वसमूहः । गृह्यकतैत्तिरोत्कम् । गृहासक्ते तित्तिरिसमूहे उत्कम् । अ- न्यान् सर्वान् तृण्यामिव तृणसमूहमिवावमन्यमानम् ॥-काकेति । तस्य समूहः इत्यण् । भैक्षमिति । 'भिक्षादिभ्योऽग्'। केदार्येति । 'केदाराद्यञ्च । कावचिकेति। 'उ कवचिनश्च' । तैत्तिरेति । 'अनुदात्तादेरज्' । आपूपिकेति । 'अचित्तहस्तिधेनोष्ठक' । अश्वीयेति । 'केशा- श्वाभ्यां यच्छावन्यतरस्याम्' इति छः । तृण्येति । 'पाशदिभ्यो यः' । गृह्यति । पदारखै. रिवाह्यापक्ष्येषु च' इति ग्रहेरखैरिणि क्यप् ।। ऊर्च मुहूर्ताच्छृणुया यदि त्वमव्यथ्यमेकं द्विषतां भवन्तम् । निस्तृण्ढि मांसौदनिकान्किमन्यद्भाक्तान्नृपास्मानिति ते तमूचुः ॥४९॥ ते असुरास्तमित्यूचुः। नृप, अन्यत् कि ब्रूमहे । त्वं मुहूर्तादूर्ध्व द्विषता मध्ये एक- मपि अव्यथ्यं व्यथाहीनं भवन्तं सन्तं यदि शृणुयाः, तर्हि अस्मान् निस्तृण्डि जहि इति । मासौदनिकान् येभ्यो नित्यं मांसौदनं दीयते। तथा भक्तं येभ्यो नित्यं दीयते। भक्कमन्नम्। ते भाकाः । न व्यथत इति अव्यथ्यः ।।--अव्यथ्यमिति । 'राजसूयसूर्यमृषोद्य-' इति नपूर्वाधथतेः क्यप् । शृणुया इति । "लिट् चौर्ध्वमौहूर्तिके' इति लोडीलक्षणे भ- विष्यति वा लिङ् । लोडर्थः प्रैषादिः । मांसौदनिकानिति । 'श्राणामांसौदनाठिन्' । 'तदस्मै दीयते नियतम्' इत्यर्थे । भातानिति । 'भक्तादणन्यतरस्याम्' इत्यम् ॥ उद्यच्छमानात्कदनाय कंसाढद्विग्नचित्ता यवः सदाराः । प्रायेण वैराटकशैवमुख्यं देशान्तरं पादविका बतेयुः ॥ ५० ॥ यदवः कंसादुद्विग्नचित्ता भीतचित्ताः सदाराः प्रायेण बाहुल्येन वैराटकशैवमुख्य वैराटक विराटविषयः, शैबं शिवीनां विषयो देशः। तं देशान्तरमीयुः । बत कदनाय सं- कुलवधाय उद्यच्छमानात् उद्यम कुर्वाणात्। पादविकाः पदवी धावन्तः॥--उद्यच्छमाना- दिति । 'समुदाड्म्यो यमोऽग्रन्थे' इत्यात्मनेपदम् । शैव हति । 'विषयो देशे' इत्यण् । ग्रामसमूहोऽन्न विषयः । वैराटकेति । 'राजन्यादिभ्यो बुन्' । पादविका इति । 'पाथो- तरपदपदव्यनुपदं धावति' इति टक् । ईयुरिति । 'दीर्घ इणः किति' इस्लभ्यासस्य दीर्घः॥ श्रेयस्क(स्त)राभिर्गुणमण्डलीभिर्या रोहिणीति स्त्रितरा वितेपे । शौरेधूः सा निजभर्तृबन्धोर्नन्दस्य तावद्र्जमन्ववात्सीत् ॥५१॥ तावत् शौरेः सा.वधूर्जाया नन्दस्य व्रजमन्ववात्सीत् । या रोहिणीति प्रतिद्धा स्त्रितरा उत्तमस्त्री श्रेयस्क(स्त)राभिर्गुणमण्डलीभिर्वितेपे अशोभत ॥–वितेपइति । सद्विभ्यां तपः'