पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला आख्याच भृत्यानयि भो निषेव्ये यश्चैत्रवैशाखमुखैः सदापि मासैः स्वकार्यार्पणतो द्विषो मे तस्याद्य यद्यस्तु कुरुध्वमेतत् ॥४४॥ स भृत्यान् इति आख्यात् उक्तवांश्च । 'अयि भो मित्राणि, यः अहं चैत्रवैशाखमुखै- मासैरपि सदा खकार्यार्पणतः निषेव्ये सेवितो भवामि तस्य तादृशस्य मे अद्य द्विषः श- ववो भवन्ति यदि तहि अस्तु भवतु । यूयमेतद्वक्ष्यमाणं कुरुध्वम् ॥---[कुरुध्व- मिति । 'स्वरितमितः कत्रभिप्राये क्रियाफले' इति तड् । वैशाखेति । 'नक्षत्रेण युक्तः कालः' इत्यपि विशाखायुक्ता पौर्णमासी वैशाखी 'सास्मिन् पौर्णमासीति' संज्ञायामम् । चैत्रेति । विभाषा काल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' इति ठगभावपक्षेऽण् । अस्त्विलव्ययं सासूयाङ्गीकारे । माहेन्द्रमानेयमृतव्यमैन्द्रं द्यावापृथिव्यं च चरं निरुप्य । कायं च सौम्यं च सुरान्यजन्ते ये तान्द्विजानाहत सामगाद्यान् ॥४५॥ यूयं तान् द्विजान् आहत । सामगाद्यान् साम गायन्तीति सामगाः । चरुं निरुप्य निर्वापं कृत्वा । किदेवत्यम् । माहेन्द्र महेन्द्रदेवताकम् , आग्नेयमग्निदेवत्यम् , ऋतव्यमृतु- देवत्यम्, ऐन्द्रं द्यावापृथिव्यं कार्य कः प्रजापतिस्तद्देवत्यं च सौम्यं सोमदेवताके च ॥- यजन्त इति । स्वरितेत्त्वादात्मनेपदम् । सामगेति । 'गापोष्टक' । ऐन्द्रमिति । 'सास्य देवता' इत्यण् । कायमिति । 'कस्येत्' इत्यण् , इकारादेशश्च । माहेन्द्रमिति । महेन्द्राद् धागो च' इत्यण् । सौम्यमिति । 'सोमा ट्यण' । ऋतव्यति । 'वायवृतुपित्रुषसो यत्' । द्यावापृथिव्यमिति । 'द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च' इति यत् । आग्नेयमिति। 'अग्नेर्डक् । प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढरवक्तव्यः'। मिथ्यापि ये केचन कारयन्ते पदानि लोकेऽत्र यजन्ति वा ये 1 तान्दैत्यमुद्रानपि भावयध्वं तेऽपि स्फुटं नोऽपवदन्त एव ॥ ४६ ॥ अयि तान् दैत्यमुद्रां भावयध्वं गमयत । कान् । येऽत्र लोके पदानि मिथ्यापि कार- यन्ते स्वरादिदुष्टमसकृदुचारयन्ति । ये वा यजन्ति परार्थ यागं कुर्वन्ति तान् । तेऽपि नः अस्मभ्य अपरदन्ते क्रुध्यन्ति असूययन्ति वा एव स्फुटम् ॥--कारयन्त इति । 'मिथ्योपपदात्कृञोऽभ्यासे' इति तड्। अपवदन्त इति । 'अपाद्वदः' इति तङ् । न इति क्रुधादिना संप्रदानसंज्ञा । भावयध्वमिति । 'भू प्राप्तौ' । “णिचश्च' इति तब् ॥ अपूपिकादं सुवितीर्णभैक्षं कैदार्यवत्कावचिकानुयातम् । अश्वीयवद्गृह्मकतैत्तिरोत्कं तृण्यामिवान्यानवमन्यमानम् ॥ ४७ ॥ प्राङ्मत्प्रसत्त्यैव यदीढगासीत्तत्काकवचाय कुलं यदूनाम् । भवत्वनन्तापितपक्षपातात्परेतपिण्डादनविन्दजीवम् ॥ ४८॥ यत् प्राक् मत्प्रसत्त्या मप्रसादेनैव ईदगासीत्, तत् यदूनां कुलमयेदानीं तु अनन्ता-