पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तत्र स्थितं प्रसन्नं तरुणतमालप्रवालकिरणाभम् ।
कर्णावलम्बिकुण्डलकन्दलिताभीशुकवचितकपोलम् ॥ ७४ ॥

शोणाधरं शुचिस्मितमेणाङ्कवदनमेधमानकपम् ।
मुग्धैणमदविशेषकमुद्रितनिटिलेन्दुरेखिकारुचिरम् ॥ ७५ ॥

नालीकदलसहोदरनयनाञ्चल1घटितमनसिजाकूतम् ।
कमलाकठिनपयोधरकस्तूरीधुसृणपङ्किलोरस्कम् ॥ ७६ ॥

चाम्पेयगन्धि कैश्यं शम्पासब्रह्मचारि कौशेयम् ।
श्रीवत्सकौस्तुभधरं श्रितजनरक्षाधुरीणचरणाब्जम् ॥ ७७ ॥

कम्बुसुदर्शनविलसत्करपद्मं कण्ठलोलवनमालम् ।
मुचुकुन्दमोक्षफलदं मुकुन्दमानन्दकन्दमवलम्बे ॥ ७८ ॥

तद्वरणोत्तरभागे तारापतिबिम्बचुम्बिनिजशृङ्गः।
विविधमणीगणघटितो वितरतु सालो विनिर्मलां धिषणाम् ॥७९॥

प्राकारद्वितयान्तरकक्ष्यां पृथुरत्ननिकरसंकीर्णाम् ।
नमत सहस्रस्तम्भकमण्डपनाम्नातिविश्रुतां भुवने ॥ ८० ॥

प्रणुमस्तत्र भवानीसहचरमीशानमिन्दुखण्डधरम् ।
शृङ्गारनायिकामनुशीलनभाजोऽपि भृङ्गिनन्दिमुखान् ॥ ८१ ॥

तस्यैणवाहयोजनदूरे वन्दे मनोमयं वप्रम् ।
अङ्कूरन्मणिकिरणामन्तरकक्ष्यां च निर्मलामनयोः ॥ ८२ ॥

तत्रैवामृतवापीं तरलतरङ्गावलीढतटयुग्माम् ।
मुक्तामयकलहंसीमुद्रितकनकारविन्दसंदोहाम् ॥ ८३ ॥

शक्रोपलमयभृङ्गीसंगीतोन्भेषधोषितदिगन्ताम् ।
काञ्चनमयाङ्गविलसत्कारण्डवषण्डताण्डवमनोज्ञाम् ॥ ८४ ॥

कुरुविन्दात्मकहल्लककोरकसुषमासमूहपाटलिताम् ।
कलये सुधास्वरूपां कन्दलिता2मन्दकैरवामोदाम् ॥ ८५ ॥

तद्वापिकान्तराले तरले मणिपोतसीम्नि विहरन्तीम् ।
सिन्दूरपाटलाङ्गीं सितकिरणाङ्कूरकल्पित्तवतंसाम् ॥ ८६ ॥

१. 'नटित'क. २. 'मोद' क.