पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेवविजयम् । इदंवचोऽनुञ्चरमाण ईते तस्मिन्स्वमादाय शिशु निकाथ्यम् । आनाय्यपूज्यो मधुरां प्रणाव्यस्ता नारदः स्मायति लोकपान्थः ॥२०॥ तस्मिशौरौ खं शिशुमादाय निकाय्यं गृहं ईते सति नारदः तां मधुरा आयति स्म प्राप्तवान् । इदंवचः अस्य वाक्यं अनुचरमाणे अनुक्रम्य वर्तमाने आनाय्यपूज्यः आना- य्योऽग्निविशेषः । तद्वत् पूज्यः । प्रणाय्यः निष्कामः तथापि लोकपान्थः लोकेषु पथो निलं गच्छन् ।-अनुच्चरमाण इति । 'उदश्चरः सकर्मकात्' इत्यात्मनेपदम् । लटः शानच् । 'आनाय्योऽनित्ये' इत्यापूर्वान्नयतेयंदायादेशौ । नणाय्य इति । 'प्रणाय्यो संमतो' इति प्रपूर्वान्नयतेर्ण्यदायदोशौ। निकाय्येति । 'पाठ्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससा- मिधेनीषु' इति निवासे वाच्ये निपूर्वाचिनोतेयंदायादेशावादिकुत्वं च निपात्यते । लो- कपान्थः । 'पन्थो । नित्यम्' गच्छतीत्यर्थे । सकुण्डपाय्यैर्विदिताग्निचित्यैश्चिन्वद्भिरमीश्च समूह्यमुख्यान् । 'अध्येतृभिः सम्यगृचा चरूणां पचैः कुशाग्रीयविशालधीभिः ॥ २१ ॥ वासिष्ठकालेशमुखेषु सामस्वधीतिभिर्ब्रह्मभिरन्वितां ज्ञैः । सवामदेव्येषु तथैव वास्त्रवैयाघ्रमुख्यैश्च रथै ढिष्ठैः ।। २२ ।। अभ्रेण खे संचरमाण आराद्विलेशयद्वेषिसमानजूतिः । प्राढेतनादित्यकरोपमप्तः पुरी ददृश्वान्गजतावृतां सः ।। २३ ॥ ज्ञैः विद्वद्भिः ब्रह्मभिः अन्विताम् । सकुण्डपाय्यैः तन्नामक्रतुविशेषसहितैः । विदि. ताग्निचित्रः विदिता अग्निचित्या अग्निचयनं यैः । समूद्यमुख्यान् अग्नीन् चिन्वद्भिः । च ऋचां सम्यगध्येतृभिः । सवामदेव्येषु वासिष्ठकालेयमुखेषु सामसु अधीतिभिः । कुशाग्रीयविशालधीभिः । कुशाग्रीया कुशाग्रवनिशिता विशाला वा वीर्येषाम् । वरूणां पचैः तथैव रथैश्च अन्विताम् । वास्त्रवैयाघ्रमुख्यैः वस्त्रेण परिवृता वानाः । व्याघ्रस्य विकार- श्चर्म वैयाधं तैः परिवृताः । तैश्च तैश्च द्रदिष्टंढतरैः । स पुरी आरात् दद्दश्वान् दृष्ट- वान् । अभ्रेण मेधेन खे संचरमाणः तद्वाहनतया चरन् विलेशयद्वेषिसमानजूतिः गरुड- तुल्यवेगः । प्राढेतनादित्यकरोपमप्तः प्रातनः प्राहे भवः । प्ता जटा । गजतावृतां गज- समूहव्याप्ताम् ।।----कुण्डपारयेति । 'ऋतौ कुण्डपाय्यसंचाय्यौं' इति निपातनम् । समूह्येति । 'अग्नौ परिचाय्योपचाप्यसमूह्याः' इति निपातनम् । 'समूयं चिन्वीत पशुकामः' इति श्रुतिः । अग्निचित्येति । 'चित्याग्निचित्ये च' इति भावे यकारस्तु निपात्यते । अध्येतृभि- रिति । 'एकुल्तृचौ' इति तृच् । पचैरिति । 'नन्दिनहिपचादिभ्यो ल्युणिन्यचः' इत्यच् । पचतीति पचः । ज्ञैरिति । जानातीति ज्ञः। 'इगुपधज्ञाप्रीकिरः कः वासिष्ठेति । वसिष्टेन दृष्टं 'दृष्टं साम' इत्यण् । कालेयेति । 'कलेक्' । कलिना दृष्टम् । वामदेव्येति । तेन दृष्टमित्यर्थे 'वामदेवाद् ड्यज्यौ । वास्त्रेति । 'परिवृतो रथः' इत्यण् । [वैयालेति । 'आतश्चोपसर्गे