पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वासुदेव विजयम् । ऋषिः इति उक्त्वा कारितयोग्यकर्मा पुंसवनादि कारयित्वा शौरि समापृच्छय नगरात खधाम ऐत् गतवान् । समृत्यभायें भृत्वभार्यासहितं माग्यशोकं कलयन् अपनेयदुःखं चिन्तयन् । साहस्रखेयात् साहसं सहस्रपरिमितेन धनेन हेतुना निवृत्तं खेयं परिखा यत्र । ..-खेयानिति । 'खनु अवदारणे' । 'ई च खनः' इति खनेः क्यम् । अन्त्यस्य च ई- त्वम् । भृत्येति । 'भृञोऽसंज्ञायाम्' इति क्यप् । भाति । ऋहलोयत्' । मायति । 'मृजेर्विभाषा' इति क्यप् । तदभाबे 'ऋहलोर्ण्यत्' । पक्षे वृद्धिः कुत्वं च । 'भृज्य' इति पाठे क्यपि 'किति च' इति मृजेवृद्धलंधूपधगुणस्य प्रतिषेधः । साहसमिति । 'तेन निवृत्तम्' इत्यण् ॥ मासे सुतं वैजननेऽथ सूतमादाय शौरिर्वदमानमद्यौत् । तमात्मनालक्षतमं कुराज भिद्योध्यकल्पं व्यथितोऽमृषोद्यः॥ १४ ॥ अथ शौरिः वैजनने प्रसवयोग्ये मासे सूतं सुतमादाय तं कुराजं कुत्सितं राजानं अ- द्यौत् अभिगतवान् । वदमानं भासमानम् । आत्मनालक्षतमं लक्षसंख्यापूरकं बहुपरिवार- युक्तम् । भिद्योध्यकल्पं नविशेषद्वयवत् दुर्निवारम् । व्यथितः। अमृषोद्यः मृषावादर- हितः ।। बदमान मिति । 'भासनोपसंभाषाज्ञानयनविमत्युपमन्त्रणेषु वदः' इति शानच् । अमृषोद्य इति । 'राजसूयसूर्यमृषोद्यरुच्यकुंप्यकृष्टपच्याव्यथ्याः' इति क्यन्निपात्यते । भि- योध्येति । 'भिद्योद्ध्यौ नदे' इति क्यन्निपात्यते । आस्मनालक्षतममिति । 'नित्यं शता- दिमासाधमाससंवत्सराच' इति तमडागमः । आत्मनश्च पूरणे' इत्यलुक् । वैजनन इति । विजननशब्दात् 'ज्योत्लादिभ्य उपसंख्यानम्' इति अण् मत्वर्थीयः । अद्यौत् । 'धु अभिगमने। संस्त्यानया सिद्ध्यरुचः शुचास्य प्रष्ठस्य शिष्टेषु गविष्ठिरस्य । प्रणाय्यगृह्योऽतिविनीयधामाप्यप्रेष्ट सत्योद्यतया स कंसः ॥ १५ ॥ स कंसः अस्य सत्योद्यतया सत्यवादितया अति अतिशयेन अप्रेष्ट प्रीतोऽभूत् । प्र- णाय्यगृयः असंमतजनपक्ष्यः। विनीयधामा विनीयस्य पापस्य आस्पदमपि । संस्त्या- नया घनीभूतया शुचा सिध्यरुवः पुष्यनक्षत्रवद् म्लानशोभस्य । शिष्टेषु प्रष्ठस्य पुरोगमस्य। गावि वाचि स्थिरस्य ॥-विनीयेति । 'विपूयविनीयजिला मुञ्जकल्कहलिषु' इति कल्के क्यन्निपात्यते । गृह्येति । ‘पदाखैरिबाह्यपक्ष्येधु त्र' इति पक्षमावे क्यप् । प्रणाय्येति । 'प्र- णाय्योऽसंमतौ' इति ण्यदायादेशनिपातनम् । गविष्ठिरस्येति । 'गवियुधिभ्यां स्थिरः' इति षत्वम् । अलुक् च निपातनात् । संत्यानेति । 'संयोगादेरातो धातोर्यण्वतः' इति निष्ठानत्वम् । प्रष्ठस्येति । 'प्रष्ठोऽग्रगामिनि' इति षत्वम् । अवीवचञ्चेति तथा व्यथा मा युग्येन यायाः ससुतः समीसन् । अश्राव्यपादानमनष्टमो वां न ह्यात्मजन्मा मम मित्र भीतेः ॥१६॥ १ 'कुल्य' इति पुस्तकगतः पाठः. २ 'पथ्याः' इति पुस्तकगतः पाठः,