८० काव्यमाला। सः कंसः सहसाकृतानां क्रियाणां पचेलिमानि स्वयमेव पक्वानि फलानि भोक्ता यः यातुधर्मा यातूनां राक्षसानां धर्म इच धर्म आचारो यस्य तादृशः सन् क्रमते कौटिल्येन वर्तते। स्तोकात्प्रस्टः अल्पेन कारणेन भृशंस्टः क्रुद्धः । अवध्यान् गुर्वादीन् अपि कर्षन् हिंसन् मुमूर्षन् संभावितमरणः ॥-कमत इति। अनुपसर्गादा' इति तड्। पचेलिमानीति के- लिमर उपसंख्यानम्' 'कर्मकर्तरि चायमिष्यते' अवध्यानितिा हनो वा यद्वधश्चवक्तव्यः'इति यद्वधादेशौ। स्त्रोकात्प्रसष्टेति । 'करणे च स्तोका-' इत्यादिना पञ्चमी । 'स्तोकान्तिक-'इति समासः । 'अलुगुत्तरपदे' इत्यलुगधिकारः प्रागानडः । उत्तरपद इत्यापादान्तम् । 'पञ्चम्याः स्तोकादिभ्यः' इत्यलुक् । सहसाकृतानामिति । 'ओजःसहोम्भस्तमसस्तृतीयायाः' इल. लुक् । मुमूर्षनिति । 'आशंसायामुपसंख्यानम्' इति सन् । सा च प्रयोक्तधर्मः । सनि 'पूर्ववत्सनः' इत्यात्मनेपदस्य नावकाशः । 'नहि शदिम्रियतिमात्रमात्मनेपदनिमित्तं किं तहि शिदाद्यपि' इत्युक्तेः । यातुधर्मेति । 'धर्मादनिच्केवलात्' इत्यनिच् समासान्तः ।। अजयंमार्यैः सह संगतं तत्कान्येव कर्माण्यवजानते ते । श्वःश्रेयसं त्वाप्स्यति सर्पिरादेर्थे जानते ते न पदं विपत्त्याः ॥ ११ ॥ ते आयः सदाचारपरैः सह तत् चिराभ्यस्तं संगतं कान्येव कर्माणि अवजानते अप- झुवते । अजय न जयमिति वा श्वःश्रेयसं भद्रं आप्स्यति । ये सर्विरादेः घृतादिना होमसा- धनेन जानते प्रवर्तन्ते ते विपत्त्याः आपदः पदं न भजन्ति । 'जपता जुहतां चापि विनि- पातो न विद्यते' इति स्मृतिः ॥--अवजानत इति । 'अपह्नवे ज्ञः' इति तड् । जानत इति । 'अकर्मकाच' इति तड्। 'ज्ञोऽविदर्थस्य करणे' इति षष्टी । अजयमिति । 'अ- जय संगतम्' इति यत् । आर्येति । 'ऋहलोर्ण्यत्' । श्वःश्रेयसमिति । मयूरव्यंसकादिस- मासः । श्वसो वसीयः श्रेयसः' इत्यच्समासान्तः ।। संजानते ब्रह्मरहस्यमयं विरिञ्चभूये विगतस्पृहा थे। तान्भ्रूणहत्यामपि निघ्नतस्त्वं स सत्यवद्यान्भज नित्यमित्यान् ॥ १२ ॥ स त्वं तान् निलं भज । कान् । ये अम्यं ब्रह्मरहस्यं वेदस्य रहसि भवं तात्पर्य सं- जानते सम्यग्विदन्ति । विरिञ्चभूये ब्रह्मत्वे विगतस्पृहाः । कणहत्यामपि निघ्नतः । सत्य- वद्यान् सत्यवादिनः । इत्यान् अनुगन्तव्यान् ।--संजानते इति । 'संप्रतिभ्यामनाच्याने' इति तड् । सत्यवद्यानिति । 'बदः सुपि क्यप् च' इति यत् । विरिश्चभूये इति : 'भुवो भावे' इति क्यम् । भ्रूणहत्यामिति । 'हनस्त च' इति भावे क्यप् । इत्यानिति । 'एति- स्तुशास्त्रजुषः क्या' । ससत्यवद्यान् इति एकपदत्वपक्षे सत्यवचनयुकान् । अबमिति । 'अग्राद्यत्' । रहस्यमिति । 'दिगादिभ्यो यत्। उक्त्वेत्वृषि: कारितयोग्यकर्मा शौरि समापृच्छय सभृत्यभार्यम् । साहस्रखेयान्नगरात्सुमेधास्तं मायंशोकं कलयन्स्वधामैत् ॥ १३ ।। १ दिशि इति पुस्तकस्थः पाठः काशिकानुसारं शदिकृतः.
पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८२
दिखावट