पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला अथ स धम्य धर्मादनपेते मार्ग उपक्रमते पुरा अप्रतिबन्धेनावर्तत । आक्रममाणं उ- द्यन्तं अ अचायत पूजितवाश्च । 'आदित्यस्य सदा पूजाम्' इति स्मृतिः। कृष्णाप- चितौ विष्णुपूजायां विशिष्य अकस्त उत्सेहे । खं आत्मानं शुचां वह्यं वहनकरणभूत आकलयन् निश्चिन्वन् ।-अक्रस्त इति । 'वृत्तिसर्गतायनेषु क्रमः' इति सर्गे तट् । सर्ग उत्साहः । उपक्रमते इति । 'उपपराभ्याम्' इति वृत्तौ तड् । वृत्तिरप्रतिबन्धः । आक्रममाणमिति । 'आड उद्गमने' इति तड्। 'ज्योतिरुद्गमन इति वक्तव्यम्' । वह्य- मिति । 'वह्यं करणम्' इति यत् ।। प्रच्छायकारस्करमस्करात्ये मेध्ये कृतापस्किरणैररण्ये । सुखास्पदे शुम्भति विष्किरौधैरगोष्पदे संस्वबोधि गर्गः ।। ५ ।। अरण्ये सन् वर्तमानः गर्गः तत् गर्भोत्पत्तिलक्षणं वस्तु अबोधि ज्ञातवान् । प्रच्छाय- कारस्करमरकराव्ये प्रकृष्टच्छायैः कारस्करैः मस्करैः वेणुभिश्च समृद्धे । मेध्ये शुद्धे । कृतापस्किरणैः विधिकरौथैः पक्षिसमूहैः शुम्भति शोभमाने । सुखास्पदे सुखस्य स्थान- भूते। अगोष्पदे महत्त्वात् गवामयन्तासंभवविशिष्टे॥---कृतापस्किरणैरिति । कृ विक्षेपे'। 'अपाचतुष्पाच्छकुनिष्वालेखने' । 'हर्पजीविकाकुलायकरणेष्विति वक्तव्यम्' इति जीवि- कार्थे सुट् । गोष्पदमिति । 'गोष्पदं सेवितासेवितप्रमाणेषु' इति असेविते सुट् । सुखा- स्पदमिति ! 'आस्पदं प्रतिष्ठायाम्' इति सुट् । विष्किरेति। 'विष्किरः शकुनिर्विकिरो वा' इति विपूर्वात् किरतेः 'इगुपध ज्ञाप्रीकिरः कः' इति कप्रत्यये सुट् निपात्यते । मस्करति । 'मस्करमस्करिणी वेणुपरिव्राजकयोः' इति सुट् । कारस्करेति । 'कारस्करो वृक्षः' इति सुट् । अबोधीति 'दीपजन--' इत्यादिना कर्तरि चिण् । कयाशुभीयादिमसूक्तविद्याविचक्षणक्ष्मासुरतः पदात्स्वात् । परस्पराशस्यसुशस्यमार्गाहारेण निर्याय ह माधुरेण ॥ ६॥ सक्षौद्रकुस्तुम्बुरुयावकादीनाश्चर्यविनान्क्रयिकान्सरम्भान् । विच्छायतो वीवधिकानगच्छत्सान्विचायन्नपरस्परान्सा ॥ ७॥ सः खात् पदात् माधुरेण मधुरामभिनिष्क्रमता द्वारेण निर्याय अपरस्परान् विच्छा- यतः संततमविच्छेदेन गच्छतः सार्थान् विचारयन् पश्यन् स [अगच्छत् ह । कयाशुभीयादिमसूक्तविद्याविचक्षणक्ष्मासुरतः । कयाशुभीय आदिम आदी भवं येषा तानि सूक्तानि एव विद्या तस्यां विचक्षणाः क्ष्मासुरा यस्मिन् । परस्पराशस्यसुशस्य- मार्गात् परस्परं अशस्यं अहिंसनीयं अहिंसक वा सुशस्यं सुतरा प्रशंसनीयं मार्ग मृगस- मूहो यत्र । सक्षौद्रकुस्तुम्बुरुयावकादीन् क्षौद्रं मधु, कुस्तुम्बुरु धान्यकम् । आश्चर्यवि- नान् विश्नो गमनम् । ऋथिकान् क्रयेण जीवतः । सरम्भान् रम्भो वैशवो दण्डः । वीवधिकान् वीवधेन पर्याहारेण जीवतः ॥-शस्येति । 'शसु हिसायाम् । 'तकि- १. कयाशुभीयेति पुस्तकस्थपाठः काशिकायां तु कयाधुभीय इति.