पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । अपत्यमस्या भवते समस्तमप्यदायि राजन्ननुगृह्यतामियम् । भवाव्यथी दीव्य पुरीह दीव्यता जनेन मा क्लाम्य यसार्थसाधने ॥५५।। हे राजन् , अस्याः समस्तमप्यपत्यं भवते अदायि दत्तम् । इयमनुगृह्यताम् । त्वं अ- व्यथी अव्यथनशीलः भव । इह पुरि मधुरायां दीव्यता दिवीबाचरता जनेन सह दीव्य शोभस्व। मा क्लाम्य । अर्थसाधने यस यत्नं कुरु ॥-अदायीति । 'चिण भावकर्मणोः' इति तशब्दे च्लेश्चिण् । अनुगृह्यतामिति । 'सार्वधातुके यक्' इति यक् ! भवेति । कर्तरि शप्' इति शप् । दीव्येति । 'दिवादिभ्यः श्यन्' । क्लाम्यति । वा प्राशभ्लाशभ्रमुक्रम- क्लमुत्रसित्रुटिलषः' इति श्यन् । यसेति 'यसु प्रयत्ने' 'यसोऽनुपसर्गात्' इति श्यन्विकल्पः । दीव्यतेति । 'अधिकरणाच्चेति वक्तव्यम्' इति आचारे क्यच् ।। संयस्यतः साधुहिते भियं निजामाधुन्वतीमानकदुन्दुर्गिरम् । शृण्वन्नृपस्तत्क्षणमक्ष्णुवन्मदः सोऽमित्यवक्प्रोज्झितजामिधिप्सकः॥५६॥ आनकदुन्दुभेः गिरं शृण्वन् स नृपः तत्क्षणं अविलम्बेन ओं तथास्तु इत्सवक् उक्त- वान् । साधुहिते संयस्यतः यतमानस्य । निजां भियं आधुन्वतीं कम्पयन्तीम् । अक्ष्णु- वन्मदः व्यामुवन्मदो यस्य । प्रोज्झितजामिधिप्सकः प्रोज्झिता जाम्याः स्वसुः धिप्सा हिसैच्छा चेन ।-संयस्यत इति । 'संयसश्च' इति । वा श्यन् । आधुन्वतीमिति । 'धूञ् क- म्पने 'स्वादिभ्यः श्नुः । शृण्वन्निति । 'श्रुवः शृ च' इति श्रुः शृ इत्यादेशश्च । अक्ष्णु- बन्मद इति । 'अक्षू व्याप्तौ' । 'अक्षोऽन्यतरस्याम्' इति श्नुः । सोऽमिति । 'सोऽचि लोपे चेत्पादपूरणम्' इति सुलोपः । 'ओमाडोश्च' इति पररूपत्वम् । साधुहित इति । हित- योगे चतुर्थी वक्तव्या' । 'चतुर्थी तदर्था-' इति समासः । 'जामिः स्वसृकलस्त्रियोः' ।। भिन्द्युगिरीनप्यधिकुर्वते च ये जगन्ति रुन्धन्त्यपि मण्डलं दिशाम् । दर्प बलारेरपि तक्ष्णुवन्त्यलं प्रकुर्वते यान्सदराः सुरा अपि ॥५७॥ धिन्वन्ति ये बन्धुजनं तुदन्ति ये शोच्यान्कथं भव्यदृशो भवादृशः। स्तुत्वेति कंसं व्यतनोदथो मतिं गन्तुं सुपामानकदुन्दुभिर्गृहान् ॥२८॥ द्वयोरन्वयः । अथो आनकदुन्दुभिः कंसं इति स्तुत्वा गृहान् गन्तुं मति व्यतनोत् । मुषामा शोभनं सान्त्ववचनं यस्य । कथं स्तुत्वा । ये गिरीनपि भिन्द्युः, ये च जगन्ति अधिकुर्वते अभिभवन्ति, दिशां मण्डलमपि रुन्धन्ति, बलारेरपि दर्प अलं तक्ष्णुवन्ति तनूकुर्वन्ति यान् सुराः सदराः सभयाः प्रकुर्वते सेवन्ते, बन्धुजन धिन्वन्ति प्रीणयन्ति, ते भवादृशः त्वादृशः कथं शोच्यान् अस्मादृशान् तुदन्ति व्यथयन्ति । भव्यदृशः कुशल- मेव पश्यन्तः ॥--प्रकुर्वत इति । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः' इति सेवने तड् । अधिकुर्वत इति । 'अधेः प्रसहने' इति अभिभवे तड् । प्रसह- १. 'दीव्यतीति दीर्घस्तु प्राचः प्रामादिकः' इति नामधातुप्रक्रियायां सिद्धान्तकौमुदी.