पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। प्राज्ञान्कचित्संशृणुते न खल्वसौ संपश्यतेऽक्ष्णा बत नान्तरेण वा । नो वा सतः संह्वयते तितंसितं संदृष्य किंवाह्वयते परं सुरान् ॥५१॥ असौ कचिदप्यवस्थायां प्राज्ञान् न खलु संशृणुते । अन्तरेण अक्ष्णा मनसा वा न संपश्यते वीक्षते बत । आत्मन तितंसितं चिकीर्षितं सतः सज्जनान् न वा संह्वयते। कितु संदृष्य दृप्तो भूत्वा परं केवलं सुरानाह्वयते स्पर्धया आह्वानं कुरुते ॥--संशृणुत इति। 'समो गम्वृच्छिमच्छिखरवर्तिश्रुविदिभ्यः' इति कर्माविवक्षायामात्मनेपदम् । संप- श्यत इति । 'दृशेश्चेति वक्तव्यम्' इति तड्। 'धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ संह्वयत इति 'निसमुपविभ्यो ह्वः' इति तड् । आह्वयत इति । ' अस्मै ततोऽस्या वितरीतुमात्मजानुग्रामुपेत्याप्यधुनैष संविदम् । मृत्योरुपेतात्परिपालये सतीमेतां वराकीमथ सोऽभ्युपैतु वा ।। ५२॥ ततः तस्मात् एषोऽहं अस्याः आत्मजान् अस्मै वितरीतुं दातुमुनां संविदं प्रतिज्ञा- मुपेत्यापि एतां अधुना उपेतात् आसन्नात् मृत्योः परिपालये । स मृत्युः अथ कालान्तरे अभ्युपैतु वा । सती वराकीं मन्दाम् ।।--उपेत्येति । षत्वतुकोरसिद्धः' इत्येकादेशस्या सिद्ध- त्वात् तुक् । अधुनैष इति। 'वृद्धिरेचि' इति वृद्धिः । अभ्युपैतु इति । एत्येधत्यूट्यु' इति वृद्धिः । वराकीमिति । 'जल्पभिक्षकुट्टलुण्ठबृडः षाकन्' "षः प्रत्ययस्य' इतीत्संज्ञा ।। कृतस्मितेनौजसिकोऽथ शारुक: क्षितीश्वरः साहसिकोऽथ शौरिणा । अनाहतामौद्यत गां विपद्यहो न कुण्ठभावं मतिमानुपार्छति ॥५३॥ अथ कृतस्मितेन शौरिणा स क्षितीश्वरः गां वाचं औद्यत उक्तः । औजसिनः ओ- जसा वर्तमान: । साहसिकः सहसा वर्तमानः । शारुको हिंसाशीलः । अनाहतां सत्यार्थाम् । मतिमान् विपद्यपि कुण्ठभावं न उपार्च्छति प्राप्नोति । अहो ॥-औद्यत इति । वदेर्ग्रकि संप्रसारणम् । 'आटश्च' इति वृद्धिः । उपार्च्छतीति 'उपसर्गादृति धातौ' इति वृद्धिः। नामिति । 'औतोऽम्शसोः' इत्याकारादेशः। औजसिकः साहसिकः । 'ओजःसहोम्भसा बर्तते' इति ठक् ॥ अकारि यस्य प्रकरः स्वयं द्विषामदुग्ध कामानपि गौरियं समान् । जगत्यवारुद्ध च तादृशस्य ते सुहृज्जनोऽयं नृवरानुतप्त मा ॥ ५४ ।। हे नृवर, यस्य द्विषां प्रकरः समूहः स्वयं अकारि हिंस्यते स्म । इयं गौः भूमिः यस्य समान् कामान् स्वयं अदुग्ध दुग्धे स्म । अस्य जगती अवारुद्ध अवरुध्यते स । वशी- क्रियते स्म तादृशस्य ते सुहृत् अयं जनः मा अनुतप्त पश्चात्तापं प्राप्नोतु ॥----अकारीति 'अचः कर्मकर्तरि' इति ते च्लेर्वा चिण् । अदुग्धेति । ['दुहश्च'] इति तशब्दे चलेश्चि- ण्विकल्पः । अवारुद्धेति । 'न रुधः' इति चिण्प्रतिषेधः । अनुतप्तेति । 'तपोऽनुतापे च' इति चिण्प्रतिषेधः ॥