पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । गमः । 'आद्यन्तौ टकितौ । अच्छिदुरामिति । 'संहितायाम् इत्यधिकृत्य 'छे च' इति तुक् । मा च्छिददिति । 'आइमाडोश्च' इति नित्यं तुक् । ह्रीच्छेदिति । 'हीच्छ लज्जा- याम्' । 'दीर्घात्' इति तुक् । रुषा च्छायामिति । ‘पदान्ताद्वा' इति तुक् ।। न्यस्याशु पाणावसिमुज्वलं रथे गव्यादिजस्त्रीजनरक्ष्णदक्षिणम् । अक्रय्यमक्षय्यमुपेयुषा यशो रक्ष्ये हि भाव्यं प्रभुणा दयालुना ॥४८॥ पाणी उज्वलं असिमाशु रते न्यस्य (लोट्) स्थापय । गव्याद्विजस्त्रीजनरक्ष्णदक्षि- णम् । गव्या गोसमूहः । रक्ष्णो रक्षणम् । प्रभुणा रक्ष्ये जने विषये दयालुना भाव्यं अवश्यं भवितव्यम् हि अक्षय्यं क्षेतुमशक्यं अमरयं क्रयार्थरहितं यशः उपेयुषा ----न्यस्ये- ति । 'इको यणचि' इति इकारस्य यकारः । पाणौ असिमिति । 'एचोऽयवायावः' इति औकारस्यावादेशः । गव्येति । 'खलगोरथात्' इति यप्रत्यये 'वान्तो यि प्रत्यये' इति ओकारस्यावादेशः । भाव्यमिति । 'ओरावश्यके' इति ण्यति वृद्धौ ‘धातोस्तन्निमित्तस्यैव' इत्याचादेशः । क्षय्येति । 'क्षय्यजय्यौ शक्यार्थे' इत्ययादेशो निपात्यते । अक्रय्यमिति । 'क्रय्यस्तदर्थे' इत्ययादेशो निपात्यते । रथ इति। 'एकः पूर्वपरयोः' इत्यधिकृत्य 'आद्गुणः' इति एकादेशः । तस्य 'अन्तादिवच' इति सुप् आदिबद्भावः । पदसंज्ञा ॥ नारीवधान न्यवृतत्स तद्गिरः कद्रूजहिंस्रः श्रुतवानपीदृशीः । तं संहितोरूं युवतिं सरोरुदां शौरीरव्यमार्क्षीत्कुररीमिवेक्षिता ॥४९॥ सः कंसः ईशीः तद्गिरः श्रुतवानपि नारीवथात् न न्यबृतत् निवृत्तः । शौरीः कुर- रीमिव सरोरुदा भृशायमानरोदनसहितां युवति ईक्षिता व्यमाक्षीत् विमर्श कृतवान् । संहितोरूमिति । संहितावूरू यस्याः । कद्रूजहिंस्रः सर्पवद्धिसाशीलः ॥-कुररीमिति । 'जातेरस्त्रीविषयादयोपधात्' इति ङीन् । संहितोरूमिति । 'संहितशफलक्षणवामादेश्च' इत्यूङ् । कद्रू इति 'संज्ञायाम्' इति कद्रूशब्दादूङ् । नारीति 'शार्ङ्गरवाद्यञो डीन्' नृतर- योर्वृद्धिश्च' इति डीन् । युवतिमिति । 'तद्धिताः' इत्यापञ्चमाध्यायमधिकृत्य 'यूनस्तिः' इति स्त्रिया तिः सर्वतोऽक्तिन्नादित्येके' इति डीष् । ] रोरुदेति । यदन्तादप्रत्यये यलोपः ।। यः साधु भत्रैरुपतिष्ठते हरि तद्भावपूतानपि वोपतिष्ठते । चित्ते तदीये ह्युपतिष्ठते क्षमा सैतादृशस्योत्तपते कथं पुनः ।। ५० ॥ यो मन्तैः करणैः हरिं साधु उपतिष्ठते पूजयति अपि वा तद्भावपूतान् विष्णुभक्त्या शुद्धात्मनः उपतिष्ठते तैर्मैत्रीं करोति । तदीये चित्ते हि क्षमा उपतिष्ठते संनिधत्ते। सा क्षमा एतादृशस्य दुष्टस्य चित्ते कथं पुनरुत्तपते प्रकाशते ॥ हरिमुपतिष्ठत इति । 'उपा- न्मन्त्रकरणे' । उपतिष्ठते । 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम्' इति तड। उपतिष्ठत इति 'अकर्मकाच्च' इति तड् । उत्तपत इति 'उद्विभ्यां तपः इति तड‌्।