पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । ६५ अथ शौरिः जन्यया भार्यया सह तौ श्वशुरौ श्वशुर श्वश्रू च प्रणम्य तदीयात् वस्त्यात गृहात् निरैयत निर्गतवान् । बाष्पायमाणौ बाष्पमुद्रमन्तौ वियोगार्त्युपदातृचेतसौ । उपदातृ क्षयं गन्तृ । साधितार्थया बन्धुतया बन्धुसमूहेन अन्वितः । अर्थो विवाहः ।।--- श्वशुराविति । श्वशुरः श्वश्वा' इति श्वशुरः शिष्यते । श्वशुरस्योकाराकारयोर्लोपश्चेति वक्तव्यम्' इति ऊङि श्वश्रूः । साधितेति । 'सिध्यतेरपारलौकिके' इलात्वम् । उपदातृ इति । दीङ् क्षये । 'मीनातिमिनोतिदीडां ल्यपि च' इत्यात्वम् । बन्धुतयेति । 'ग्राम- जनबन्धुसहायेभ्यस्तल् ॥ शोणीहूर्गा धवलाश्च बर्करान्पटूश्च दासीर्गुणशालि हास्तिकम् । पुत्र्यै पिता यौतकमुन्मनीभयन्नदिक्षदश्वात्रथकट्यया सह ॥ ३४ ॥ पिता पुत्र्यै यौतकं स्त्रीधनं अदिक्षत् दत्तवान् । किं तत् । शोणीः धवलाश्च बहूः गाः वृषभांश्च । बर्करान् तरुणान् पशून् तरुणीश्च । पटुः दासीश्च । गुणशालि हास्तिकं हस्तिनां हस्तिनीनां व समूहम् । अश्वान् अश्वाश्च । रथकट्यया रथसमूहेन सह । उन्म- नीभवन् उत्कीभवन् ॥-[गा इति । ] 'ग्राम्यपशुसंघेष्वतरुणेषु स्त्री' इति स्त्री शिष्यते । तस्तुवर्करानिति(2) । अश्वानिति । 'अनेकशफेष्विति वक्तव्यम्' इति पुमान् शिष्यते । शोणीरिति । 'शोणात्प्राचाम्' इति वा ङीप् । पद्वरिति । 'वोतो गुणवचनात्' इति वा ङीप् । हास्तिकमिति । 'अचित्तहस्तिधेनोष्ठक्' समूहे हस्तिनी । प्रातिपदिकात्तु 'भस्याढे तद्धिते' पुंवद्भावो वक्तव्यः । रथकव्ययेति । 'इनित्रकव्यचश्च' इति स्थात् क- व्यच् । पुत्र्यै इति । गौरादिः । केचिच्छार्ङ्गरवादिपाठात् ङीनिति । अन्यस्त्वाह--पुत्रा- द्वेति पुत्रा पुत्रीति ॥ व्यतिप्रभानो विविधस्तदोच्चकैस्तत्रैधते माङ्गलिक: स्म निस्वनः । रथेन कंसप्रगृहीतरश्मिना जायापतीभ्यामथ निर्यये शनैः ॥३५॥ तदा तत्र माङ्गलिकः मङ्गलार्थों विविधो निस्वनः उच्चकैः एधते स्म । व्यतिप्रभानः अन्योन्यविनिमयेन प्रकर्षण शोभमानः अथ जायापतीभ्यां रथेन शनैः निर्यये निष्का- न्तम् । कंसप्रगृहीतरश्मिना कंसः सारथ्यमकरोत् ॥ एधते इति । 'एध वृद्धौ'। 'भूवा- दयो धातवः' इति धातुसंज्ञा । 'उपदेशेऽजनुनासिक इत्' इति अकारस्येत्संज्ञायाम् 'तस्य लोपः' इति लोपः । 'अनुदात्तङित आत्मनेपदम् । निर्यये इति । 'भावकर्मणोः' इत्यात्मनेपदम् । व्यतिप्रभानः । 'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् ॥ शस्त्रापगोरं चलतां पदोद्धतं रजो भटानामद्धत्प्रभां रवेः । क्ष्वेला च वादित्रनिनादमांसला धनाधनानां निनदं निरास्थत॥३६॥ भटानां पदोद्धतं रजः रवेः प्रभां अदधत् अपिबत् । शस्त्रापगोरं शस्त्राण्युद्यम्य च- लतां गच्छतां श्वेला सिंहनादः च धनाधनानां वर्षाकालमेघानां निनदं निरास्थत निर-