पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेव विजयम् । यादाप्सुपः' इति सुपो लुक् । 'खरादिनिपातमव्ययम्' इत्यव्ययसंज्ञा । अम्आमिति स्व. रादिषु पठ्यते । गार्गीति । 'गर्गादिभ्यो यञ्', 'यञश्च' इति ङीप् । श्येनीरिति । श्येतो गुणोऽस्यास्तीति श्येतः। गुणवचनेभ्यो मतुपो लुग्वक्तव्यः' । 'वर्णादनुदात्तातोपधात्तो नः' इति वा ङीप् तकारस्य नकारः । (शबलोरिति) अन्यतो ङीष् । गौरीति । "षिद्गौरादिभ्यश्च' इति ङीष् । कामनीयका इति । 'योपधाद्गुरूपोत्तमाद्वुञ्' । भावकर्मणोः ॥ स्वःस्त्रैणसौत्राभिमतिं सतीतरा विव्याय तत्रे कुलधर्मसंपदम् । सा जागरामास निषेवणे हरेरासांबभूवात्मसु पुण्यशालिनाम् ॥ २८॥ सा स्वःस्त्रैणसौत्राभिमति स्वर्गस्त्रीसमूहस्य सुस्त्रीत्वाभिमानं विव्याय संवृतं चकार । सतीतरा अतिशयेन साध्वी कुलधर्मसंपदं खकुलधर्मसमृद्धि तत्रे ररक्ष । हरेनिषेवणे जा- गरामास तत्परा बभूव । पुण्यशालिना आत्मसु आसांबभूव उपविवेश ॥-जागरामासेति । 'उपविदजागृभ्योऽन्यतरस्याम्' इत्याम् । तत्र इति । आदेच उपदेशेऽशिति' इत्यात्वम् । लिटः कित्त्वे आतो लोपः। 'द्विर्वचनेऽचि' इति स्थानिवद्भावे द्विवचने पुनरप्याल्लोपः । विव्यायेति । 'न व्यो लिटि' इत्यात्त्वाभावः । 'लिट्यभ्यासस्योभयेषाम्' इति संप्रसार- णम् । एलि 'अचो ञ्ण्ति' इति वृद्धिः । [सौस्त्रमिति । ] सुस्त्रीशब्दाधुवादित्वादण् भावे ।। विदांकुरु श्रीमति पुत्रि नो गिरः स्फारादरेति प्रतिपित्सुरागमान् । गुरोः सदाध्यापयतोऽनुशासनं नम्रेण मूर्ध्ना बिभरांचकार सा॥२९॥ सा गुरोः इति अनुशासनं नम्रेण मूर्धा सदा बिभरांचकार धृतवती । हे पुत्रि, नः गिरः विदांकुरु जानीहि । इति स्फारादरा स्फारः प्रचुरः । प्रतिपित्सुः ज्ञातुमिच्छुः । आ- गमानध्यापयत्तः नः ॥-न इति । 'अस्मदो द्वयोश्च' इति वा बहुत्वम् । बिभरांचकारेति । 'डुभृञ् धारणपोषणयोः' । 'भीहीभृहुवा श्लुवच' इति वा आम् । श्वद्भावाद्विवचनम् । 'कृञ्चानुप्रयुज्यते लिटि' इति लिङन्ताः कृभ्वस्तय आम्प्रत्ययस्य पश्चात्प्रयुज्यन्ते। वि. दांकुर्विति । 'विद ज्ञाने' । 'विदाकुर्वन्वित्यन्यतरस्याम्' इति निपातनम् । लोट्याम्प्र- त्ययः । गुणाभावः । लोटो लुक् । 'कृञो लोटपरस्यानुप्रयोगश्च न केवलं प्रथमपुरुषबहु- वचनान्तः । 'सर्वाण्येव लोवचनान्यत्र प्रयुज्यन्ते' इति वृत्तौ । स्फारेति । 'स्फुरति- स्फुलत्योर्षञि' इति एच आकारः । अध्यापयत इति 'क्रीड्जीनां णौ' इति एचः स्थाने आकारः ॥

  • गुणैर्यदीयैरतृपन्दिवौकसो व्यध्रुक्षदुञ्चैन च पुण्यकर्म यः।

अमूमुपायंस्त यदोः स जन्मना विभूषयन्नानकदुन्दुभिः कुलम् ॥३०॥ स आनकदुन्दुभिरमूं देवकीमुपायंस्त परिणीतवान् । यदीयैर्गुणैर्दिवौकसोऽप्यतृपन ज- हषुः । यश्च उच्चैर्महदन्तःकरणशुद्धिद्वारकमुक्तिप्रदं पुण्यकर्म न व्यवक्षत् अर्थकामफलन- १. 'कृन्मेजन्तः' इत्यव्ययसंक्षा इति तत्त्वम्.