पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । इवि पूर्वपदस्य पुंबद्भावः। निजधामेति । विशेषणसमासः । 'प्रथमानिर्दिष्टं समास उपसर्ज- नम्' इत्युपसर्जनसंज्ञा । 'उपसर्जनं पूर्वम्' इति निजशब्दस्य पूर्वनिपातः । निर्मनोरुज- मिति । 'निरादयः कान्ताद्यर्थे पञ्चम्या' इति समासः। 'एकविभक्ति चापूर्वनिपाते' इति मनोरुजाशब्दस्योपसर्जनसंज्ञा । 'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वः । “कृत्तद्धितसमा- साश्च' इति प्रातिपदिकसंज्ञायां सुप् । वेधा इति । 'अर्थवदधातुरप्रत्ययः प्रातिपदिकम्' इति प्रातिपदिकसंज्ञा । चित्रगुरिति । 'गोलियोरुपसर्जनस्य' इति ह्रस्वः । अतिद्यु। 'अत्यादयः कान्ताद्यर्थे द्वितीयया' इति समासः । 'ह्रस्व नपुंसके प्रातिपदिकस्य' इति ह्रस्वत्वम् । 'एच इग्घ्रस्वादेशे' इति ह्रस्वादेशे 'स्थानेऽन्तरतमः' 'ऊकालोऽज्झ्रस्वदीर्घ- प्लुतः' । गोप्ता इति । 'आयादय आर्धधातुके वा' इति तृचि पाक्षिक आयः । हृदि- स्पृशेति । 'हृद्युभ्यां ङेरुपसंख्यानम्' इत्यलुक् । अविचाचलिरिति । चलेर्यङ् । 'सहिच- लिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ ।। ऐन्द्रीं पुरीमाजुहुवे चकासती या शूरसेनेषु विभाति नीवृति । गुण्येषु पुण्या मधुरेति पूरभूत्तत्रोग्रसेनः किल पार्थिवाग्रणीः ॥ २३॥ मधुरा इति प्रसिद्धों या पूरैन्द्री पुरीमाजुहुवे स्पर्धया आहूतवती । तत्र उग्रसेनः पा- र्थिवाग्रणीः राजश्रेष्ठः अभूत् किल । शूरसेनेषु नीबृति जनपदे चकासती शोभमाना वि- भाति (दीव्यमाने) । गुण्येषु गुणवत्सु पुण्या शुद्धकरी ॥-~-पूरसेनेष्विति । शूरसेनानां राज्ञां निवास इति विगृह्य 'तस्य निवासः' इत्यण । तस्य 'जनपदे लुप्' । 'लुपि युक्त- बयक्तिवचने' इति प्रकृत्यर्थवदेव लिङ्गसंख्ये । गुण्येष्विति । याप्रकरणे 'अन्येभ्योऽपि दृश्यते' इति याप्रत्ययः । यानि विशेषणानि तेषां युक्तवद्भावाभावः(१) । पार्थिवाग्रणी- रिति । 'सर्वभूमिपृथिवीभ्यामणी' इत्यण् । 'तस्येश्वरः' इत्यर्थे । 'अग्रग्रामाभ्यां नय- ते वक्तव्यः' इति णत्वम् । नीवृतीति संपदादित्वादृतेः क्विप् । 'नहिवृति-' इति नेर्दीर्घः । आजुहुवे इति । 'हेञ् स्पर्धायामाह्वाने' । 'अभ्यस्तस्य च इति द्विवचनात् पूर्वं संप्रसारणम् ॥ उवुस्तथान्ये न नृपा वृषापि नो ववौ यथोवाय यश:पटं गुणैः । सोऽविद्धचेता विषयेण तेन वा निजेव पत्नी पतिवन्यभून्मही ॥२४॥ स उग्रसेनो गुणैरुरागाभिगाभिकैः सांसामिकैश्च यशःपटं यश एव पटं यथा उवाय व- यति स, तथा अन्ये नृपाः न ऊवुः उतवन्तः। वृषा इन्द्रः तथा नो क्वौ न उतवान् । विषयेण विषयैः शब्दादिभिरविद्धचेताः अनभिभूतचित्तः। तेन निजा पत्नीव मही पति- वत्नी सभर्तृका अभूत् ॥-विषयेणेति । 'जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्' इति जात्यर्थस्य वा बहुवद्भावः । विद्धति । 'न संप्रसारणे संप्रसारणम्' इति पूर्व परस्य संप्रसारणे कृते पूर्वस्य प्रसक्तं प्रतिषिध्यते । उवायेति । 'वेञ् तन्तुसंताने । 'वेञो वयिः' इति 'लिटि वयो यः' इति यकारस्य संप्रसारणं प्रतिषिध्यते । ऊबुरिति । 'वश्वास्यान्यतरस्या किति' इति यकारस्य वा वकारः । क्वाविति । 'वेषः' इति संप्रसारणद्वयं प्रतिषि-