पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। चुरादिभ्यः स्वार्थे णिच् । एधयितुमिति । 'हेतुमति च' इति स्वतन्त्रस्य कर्तुः प्रेरकः, तव्यापार प्रेषणादौ वाच्ये णिच् । साहायकेनेति । 'सहायाद्वा' इति वुञ् । महीयमानस्य महीं ब्रजेज्जगद्गोपायितुं कामयितुर्मनुष्यताम् । ऋतीयमानस्य धृतिं सपर्यया देवस्य शिश्वाययिषद्द्युयौवनम् ॥२०॥ द्युयौवनं स्वर्गयुवतिसमूहः देवस्य सपर्यया पूजया धृति मुदं शिश्वाययिषत् वर्धयितु- मिच्छत् महीं व्रजेत गच्छतु । जगत् गोपायितुं रक्षितुं मनुध्यतां कामयितुरेषणशीलस्या- महीयमानस्येति। 'महीङ् पूजायाम्। 'कण्ड्वादिभ्यो यक्' । गोपायितुमिति । 'गुपूधूपविच्छिपणिपनिभ्य आयः' । ऋतीयमानस्येति । ऋतिः सौत्रो धातुर्घृणायां वर्तते । 'ऋतेरीयड्। कामयितुरिति । 'कमेर्णिङ्' । शिश्वाययिषदिति । श्वर्णिजन्तात् सनि शतृ णौ च संश्चडोः' इति संप्रसारणे विकल्पः। यौवनेति । युवतिशब्दात् भिक्षाद्यणि विषये पुंबद्भावा- त्तिप्रत्ययनिवृत्तिः । 'अन्' इति प्रकृतिभावात् 'नस्तद्धिते' इति विलोपाभावः ॥ पादाब्जधूल्या पवितां विधाय गां यशो गुफित्वा विभवोऽपि भूयसि । अजोऽषित्वासुरभारजा रुजो भुवोलुचित्वाशु पदं स्वमेष्यति ॥२१॥ अजो विष्णुरेवं कृत्वा आशु खं पदमेष्यति प्राप्स्यति । किं कृत्वा । पादाब्जधूल्य श्री. पादारविन्दपरागेण गां भूमि पवितां विधाय यशो गुफित्वा प्रथितं कृत्वा भूयसि बहु- तरेऽपि विभवे अतृषित्वा स्पृहामकृत्वा भुवः असुरभारजाः रुजः पीडाः लुचित्वा अ- पनीय ॥---पवितामिति । क्तः । 'पूडच' इति वेट् । 'पूङ्ः क्त्वा च' इति कित्त्वाभावः। गुफित्वा इति । 'गुफगुम्फ ग्रन्धे' । 'नोपधात्थफान्ताद्वा' इति पाक्षिकः कित्त्वाभावः । लु- चित्वेति । 'लुक्षु अपनयने । का। वञ्चिलुञ्च्यृतश्च' इति वा कित्त्वप्रतिषेधः । अतृषित्वा इति । 'जितृष पिपासायाम्'। 'तृषिमृषिकृषः काश्यपस्य' इति सेटः काप्रत्ययस्य वा कित्त्वम् । एष्यति । 'स्यतासी लृलुटोः' इति लृटि स्यः॥ कृत्वेति दिद्योतिषु निर्मनोरुजं हृदिस्पृशा सार्वगिराविचाचलिः । गोप्ता सतां तत्स सदस्ततोऽश्वयीदतिधु वेधा निजधाम चित्रगुः ॥२२॥ स वेधाः तङ् सदः तां सभामिति सार्वगिरा सर्वस्मै हितया गिरा निर्मनोरुजं मनोरुजाया मनःपीडायाः निर्गतं कृत्वा ततः तस्मात् स्थानात् निजधाम अश्वयीत् गतवान् । सतांख- धर्मनिरतानां गोप्ता । अविचाचलिः स्थिरबुद्धिः। चित्रगुः चित्राः गावो यस्य । दिद्यो- विषु द्योतितुमिच्छु । हृदिस्पृशा मनोहरया हृदि स्पृशतीति । अतिद्यु द्यामतिक्रान्तम् ॥--- दिद्योतिष्विति । 'रलो ब्युपधाद्धलादेः संश्च' इति सेटः सनः पाक्षिके कित्त्वाभावे गुणः । सार्वगिरेति । सर्वस्मै हिता । 'सर्वपुरुषाभ्यां णढोञौ' इति णप्रत्यय आदिवृद्धिः।] 'गॄ शब्दे' । संपदादित्वात् क्विप् । 'अपृक्त एकालप्रत्ययः' इत्यपृतसंज्ञा । 'वेरपृक्तस्य' इति वेलोपः। 'तत्पुरुषः समानाधिकरणः कर्मधारयः' इति कर्मधारयसंज्ञा । पुंवत्कर्मधारय-'