पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

आपाटलांशुकधरामादिरसोन्मेषवासितकटाक्षाम् ।
आम्नायसारगुलिकामाद्यां संगीतमातृकां वन्दे ॥ ३५ ॥

तस्य च सुवर्णसालस्योत्तरतस्तरुणकुङ्कुमच्छायः ।
शमयतु मम संतापं सालो नवमः स पुष्परागमयः ॥ ३६॥

अनयोरन्तरवसुधाः प्रणुमः प्रत्यग्रपुष्परागमयीः ।
सिंहासनेश्वरीमनुचिन्तननिस्तन्द्रसिद्धनीरन्ध्राः ॥ ३७॥

तत्सालोत्तरदेशे तरुणजपाकिरणधोरणीशोणः ।
प्रशमयतु पद्मरागपाकरो मम पराभवं दशमः ॥ ३८॥

अन्तरभूकृतवासाननयोरपनीतचित्तवैमत्यान् ।
चक्रेशीपदभक्तांश्चारणवर्गानहर्निशं कलये ॥ ३९ ॥

सारङ्गवायोजनदूरेऽसंघटितकेतनस्तस्य ।
गोमेदकेन रचितो गोपायतु मां समुन्नतः सालः ॥ ४०॥

वप्रद्वयान्तरोर्व्यां बटुकैर्विविधैश्च योगिनीवृन्दैः ।
सततं समर्चिताया: संकर्षिण्याः प्रणौमि चरणाब्जम् ॥ ४१ ।।

तापसयोजनदूरे तस्य समुत्तुङ्गगोपुरोपेतः ।
वाञ्छापूर्त्यै भवताद्वज्रमणीनिकरनिर्मितो वप्रः ॥ ४२ ॥

वरणद्वितयान्तरतो वासजुषो विहितमधुरसास्वादाः ।
रम्भादिविबुधवेश्या रचयन्तु महान्तमस्मदानन्दम् ॥ ४३ ॥

तत्र सदा प्रवहन्ती तटिनी वज्राभिधा चिरं जीयात् ।
चटुलोर्मिजालनृत्यत्कलहंसीकुलकलक्कणितपुष्टा ॥ ४४ ॥

रोधसि तस्या रुचिरे वज्रेशी जयति वज्रभूषाढ्या ।
वज्रप्रदानतोषितवज्रिनिमुखत्रिदशविनुतचारित्रा ॥ ४५ ॥

तस्योदीच्यां हरिति स्तबकितसुषमावलीढवियदन्तः ।
वैडूर्यरत्नरचितो वैमल्यं दिशतु चेतसो वरणः ।। ४६ ॥

अधिमध्यमेतयोः पुनरम्बाचरणावलम्बितस्वान्ताम् ।
कर्कोटकादिनागान्कलयामः किं च बलिमुखान्दनुजान् ॥ ४७ ॥