पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५६ काव्यमाला । हे प्रभो, भवान् मयि अनुग्रहं कृषीष्ट कुरुतात् । अपशर्मणि अपगतं शर्म यस्याः। मम आपदं दुर्जनभरणलक्षणं भित्सीष्ट अपनयतात् । त्वदते परः अन्यः कः पुरुषः कृपणं दीनं जनं निजौरसीयन् निजं औरसं पुत्रमिवाचरन् तदार्तिहृत् तस्य पीडां हरन् सुख असूषुपत् खापितवान् । आर्त्यतिशये हि खापो दुर्लभः ॥-भित्सीष्टेति। 'लिड्सिचावात्म- नेपदेषु' इति लिड् कित्त्वाद्गुणाभावः । कृषीष्टेति । 'उश्च' इति कित्त्वाकुणाभावः । निजौ- रसीयन्निति । 'उपमानादाचारे' इति कर्मणः परः क्यच् । अपशर्मणीति । 'अनो बहु- बीहे. इति डीप्रतिषेधः । असूषुपदिति । 'जिध्वप् शये' । हेनुमण्ण्यन्तः चट् । 'स्वा- पेश्चङि' इति संप्रसारणम् । लघूपधगुणः । उपधाहखः। द्विवचनम् । “दी| लघोः ॥ पयायमानामपि तापदायिनी भृशायितातिम्लपितां गिरं भुवः । कृपायमाणोऽथ निशम्य चिन्तया क्षणं सतूष्णीमकृतासिकां विभुः॥९॥ अथ स विभुः भुवः गिरं निशम्य चिन्तया हेतुना तूष्णी आसिका अकृत कृतवान् । पयायमानां पय इवाचरति पयायते तादृशीमपि तापदायिनीं भृशायितार्तिग्लपितां अभृशा भृशा भूता भृशायिता । कृपायमाणः कृपावान् ॥-अकृतेति । 'उश्च' इति सिचः कित्त्वम् । पयायमानामिति । 'कर्तुः क्यड् सलोपश्च' इति क्यड् । पयसस्तु विभाषया' इति सलोपविकल्पः । पयस्यभानाम्' इति वा पाठः । भृशायितेति । भृशादिभ्यो- भुव्यच्वेर्लोपश्च हलः' इत्यर्थे ,क्यड् । कृपायमाण इति । 'लोहितादिडाज्भ्यः क्यष्' इत्यस्त्यर्थे क्यम् ॥ निश्चित्य सोऽथ सहपार्वतीपतिः सुरैस्तथाधार्मिकराजया भुवा । कष्टायमानस्य जनस्य शासितुस्तपस्यतां पत्युरगात्पदं हरेः॥ १० ॥ स ब्रह्मा अथै कर्तव्यं वस्तु निश्चित्य हरेः पदं क्षीराब्धिमगात् । सहपार्वतीपतिः सुरैस्तथा अधार्मिकराजया भुवा च सह । अधार्मिकाः अधर्मे चरन्तो राजानो यस्याः। कष्टायमानस्य पापं कर्तुं यतमानस्य जनस्य शासितुः तपस्यतां तपश्चरतां पत्युः ।।-कष्टायमानस्येति । 'कष्टाय क्रमणे' इति क्यद्द । तपस्यतामिति । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । 'तपसः परस्मैपदं च' 1 अधार्मिकराजयेति । 'अधर्माचेति वक्तव्यम्' इति ठक् । 'डाबुभाभ्यामन्यतरस्याम्' इत्यन्नन्तात् बहुव्रीहेर्डाप् । पार्वतीपतीति । 'तम् पर्वमुरुग्द्यो' इति मत्वर्थीयस्तप् । पर्वतस्थापत्यं पार्वती । 'अनुपसर्जनाद्' इत्यधिकृत्य 'टिड्ढाणद्वयसज्दघ्नमात्रच्तयप्ठक्ठञ्क्वरपः' इति ङिप् ॥ स्वान्याहत स्त्रैणमुरांसि यद्द्विषां नित्यं न चोदायत यत्परो जनः । सोषुष्यमाणं स तमेकजागृविं वावश्यमानो जगतां शमस्तवीत्॥११॥ स तं हरिं अस्तवीत् स्तुतवान् । यद्विषां यस्य शत्रूणां स्त्रैणं स्त्रीसमूहः खानि उरांसि आइत अताड्यत् । यत्परो यद्भक्तो जनो नित्यं न उदायत परदोषानासूचयञ्च । सोषुप्यमाणं पुनः पुनः स्वपन्तं एकजागृविं प्रधानजागरूकम् । जगतां शं सुखं वावश्य- 1