पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । षस्य धर्मस्य द्विपदीं पादद्वययुतां तनुं अनभिकां पादरहितां तन्यते । धर्ममशेषं नाशयन्ति । द्वापर युगेऽपि धर्मो द्विपात् ॥-निजन्निरे इति । 'असंयोगाल्लिट्कित्' इति किद्वद्भावात् 'गमहनजन-' इत्युपधालोपः । बभूवेति । 'इन्धिभवतिभ्यां च' इति लिटः किद्वद्भावाद्गुणाभावः । उदित्वेति । 'वद व्यक्तायां वाचि' अस्मात् क्त्वा । 'मृ- डमृदगुधकुषक्लिशवदवसः क्त्वा' इति कित्त्वे 'वचिस्वपियजादीनां किति' इति यजादि- त्वात्संप्रसारणम् । 'इग्यणः संप्रसारणम्' 'क्त्वातोसुन्कसुनः' इत्यव्ययसंज्ञा । द्विपदीमिति । द्वौ पादावस्य इति बहुव्रीहिः । 'संख्यासुपूर्वस्य' इत्यकारलोपः समासान्तः । 'पादोऽन्यतरस्याम्' इति वा ङिपि ‘पादः पत्॥ सुधाभुजोऽपि न्यजिघृक्षदोजसा यः कालनेमिः स हि कंसतामयन् । जिगीषया संकुटितापथा तिसृष्वाक्रीडते संप्रति लोकसीमसु ॥६॥ स हि कालनेमिः संप्रति कंसतामयन् प्राप्नुवन् जिगीषया जेतुमिच्छया तिसृषु लोकसीमसु लोकानामन्तेषु अपि आक्रीडते यः सुधाभुजो देवान् अपि ओजसा न्यजिघृक्षत् निगृहीतुमैच्छत् । अपथा अमार्गेण संकुटिता कौटिल्येन गन्ता । 'कुट कौटिल्ये' ॥--- न्यजिघृक्षदिति । 'ग्रह उपादाने' । 'धातोः कर्मणः-' इति सन् । 'रुदविदमुषग्रहिखपि- प्रच्छः संश्च' इति सनः कित्त्वम् । 'ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभूज- तीनां ङिति च' इति संप्रसारणम् । 'संप्रसारणाच' इति पूर्वरूपत्वम् । जिगीषयेति । 'इको झल्' इति सनः कित्वात् गुणाभावः । 'अज्झनगमां सनि' इति दीर्घः । तिसृष्विति । 'न षट्स्वस्त्रादिभ्यः' इति ङिप्प्रतिषेधः । सीमखिति । 'मनः' इति ङिप्प्रतिषेधः॥ न कोऽप्यशस्त्रीयदितः पुरा पुमान्न चायशस्काम्यदुवाह नो मुदम् । न धैर्यलक्ष्म्या समगस्त स प्रतानसावचिच्छित्सत यस्य वैभवम् ||७|| असौ कंसः यस्य पुंसः वैभवं अचिच्छित्सत छेत्तुमैच्छत् स तादृशः पुमान् कोऽपि कश्चिदपि इतः पुरा वर्तमानकालात् प्राक् न अशस्त्रीयत् आत्मनः अस्त्रमैच्छत् । न च अयशस्काम्यत् आत्मनः यशः ऐच्छत् । मुदं न उवाह । धैर्यलक्ष्म्या न समगस्त संगत- चान् । प्रतान् प्रकर्षण ताम्यन् ॥-अचिच्छित्सतेति । 'हलन्ताच' इति सनः कित्वम् । समगंस्तेति । 'गम्लृ गतौ' । 'वा गमः' इति सिचः कित्त्वविकल्पः । कित्त्वाभावपक्षे अनुनासिकलोपाभावः । अशस्त्रीयदिति । 'सुप आत्मनः क्यच्' इतीच्छायां क्यच् । अयशस्काम्यदिति । 'काम्यछ' इतीच्छायां सुपः काम्यच् । 'पाशकल्पकका- म्येषु' इति सकारः । उवाहेति । 'वह प्रापणे । लिख्यभ्यासस्योभयेषाम्' इति यजादि- वात्संप्रसारणम् ॥ अनुग्रहं मथ्यपशर्मणि प्रभो कृषीष्ट भित्सीष्ट ममापदं भवान् । असूषुपत्कस्त्वदृते परः सुखं निजौरसीयन्कृपणं तदार्तिहृत् ॥ ८॥