पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

हता यस्य रामस्य आशुगहता बाणहता अरिचमुः शत्रुसैन्यम् । खरिति अव्ययम्। खर्गे भेजे जगाम । नुः मनुष्यस्य भेतव्यकरी भयंकरी भवरुक् संसारव्याधिः निर्भेषजाचिकित्सा- रहिता येन रामेण अस्यते निरस्यते। 'असु क्षेपणे'। कर्मणि लट् । प्रथमपुरुषैकवचनम् । खगतनौ वायसरूपिणि मघोनः इन्द्रस्य अर्भे अर्भके जयन्ते दर्भण कुशेन अस्त्रयुजा अस्त्र- कार्य कुर्वता सुन्दरमणीनिर्भेदिना ताटकाघातिना अमुना अजसुतस्य दशरथस्य गर्भेण वयं सेश्वराः सनाथाः॥

स्तोमाय निदिवौकसामुपहृतक्षेमाय हत्वा रिपू-
न्रामाय प्रथमानसुन्दरगुणप्रामाय तस्मै नमः ।
श्यामाय त्रिपुरारिचापदलनोद्दामाय लङ्कापुरी-
भीमाय क्षितिकन्यकारमणिनः कामाय कोदण्डिने ॥ ११३॥

रिपून् हत्वा त्रिदिवौकसां देवानां स्तोमाय संघाय उपहृतक्षेमाय उपहृतः क्षेमः येन तस्मै । प्रथमानसुन्दरगुणग्रामाय श्यामाय त्रिपुरारिचापदलनोद्दामाय लङ्कापुरीभीमाय क्षितिकन्यारमाणिनः सीतायाः कामाय कामरूपाय कोदण्डिने रामाय तस्मै नमः ।

हर्यक्षेभरतक्षुखड्गचमरीकिर्यच्छभल्लाकुलं
निर्यद्भोगि वनं ङ्गिरा पितुरगाद्धुर्यः स्वधर्मस्य यः ।
निर्यत्नं खरदूषणत्रिशिरसः स्वर्यद्धता लेभिरे
पर्यस्यत्वहिमांशुवंशजनुषां वर्यः स पापानि नः ॥ ११४ ॥

खधर्मस्य धुर्यः निर्वाहकः यः पितुः गिरा हर्यक्षेभतरक्षुखड्गचमरीकिर्यच्छभल्लाकुलं सिंहगजव्याघ्रचमरीवन्यवराहाच्छभल्लाकुलं निर्यद्भोगि निर्यन्तः संचरन्तः भोगिनः सर्पाः यस्मिन् तत् वनं अगात् । निर्यत्नं प्रयत्नं विना यद्धताः येन रामेण हताः खरदूषणत्रि- शिरसः स्वः खर्गे लेभिरे प्राप्ताः । अहिमांशुवंशजनुषां सूर्यवंश्यानां वर्यः सः नः पापानि पर्यस्यतु निवर्तयतु ॥

हन्तुं प्राक्तनदुष्कृतानि जगतां भन्तुं भृशानित्यतां
कन्तुं जेतुममुत्र चेह समुपारन्तुं फलेष्वादरात् ।
यन्तुश्चेन्द्रियजातमागमशिरो गन्तुं च वक्राद्गुरो-
स्तन्तुं चण्डकरान्वयस्य कलये तं तुङ्गचापं प्रभुम् ॥ ११५ ॥

प्राक्तनदुष्कृतानि प्रारजन्मार्जितपापानि हन्तुं जगतां भृशानित्यतां मन्तुं अवगन्तुं कन्तुं विषयासक्ति जेतुं अमुत्र परलोके इह फलेषु आदरात् समुपारन्तुं इन्द्रियजातं यन्तुं वशीकर्तुं गुरोः आचर्यस्य वक्रात् आगमशिरः तत्त्वशास्त्रं गन्तुं तुङ्गचापं चण्डकरान्वयस्य तन्तुं प्रभु कलये ध्यायामि ।