पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

ये नराः धनमदात् श्रीहीनं दरिद्रं एहि आगच्छ याहि गच्छ इति व्यथयन्ति पीड- यन्ति तान् दोहीयसीनां पयस्विनीनां गवां अधिपतीनपि। इदमुपलक्षणम्। अतिसंपन्ना- नपि बाहीकानिव वेदबाह्यानिव न स्मरामि । यः रामः देहीति ईरितमन्तरेण याच्या विनैव देहिनां प्राणिनां ईहितं अभीष्टं ददते ददाति । 'दद दाने । लडेकवचनम् । हे रघूद्वह पाहीति ब्रूवतः मे दयावाही दयालुः त्वं सेव्योऽसि ॥

श्रुत्वा वेदशिरांसि तन्निगदितं मत्वा यथावन्नरः
स्मृत्वाभीक्ष्णमिदं लभेत विशयं हित्वात्मसाक्षात्कृतिम् ।
यत्त्वाह क्रममित्थमागमशिरस्तत्त्वावबोधोदये
सत्त्वाकार तदेव राम सुलभं न त्वामनत्वा नृणाम् ॥१०॥

नरः वेदशिरांसि वेदान्तानि श्रुत्वा गुरुमुखात् श्रवणं कृत्वा यथावत् साकल्येन अभीक्ष्णं पुनः पुनः स्मृत्वा मननं कृत्वा विशयं संशयं हित्वा आत्मसाक्षात्कृतिं मोक्षं लभेत इति निगमः वेदः इत्थमेव क्रममाह । तत्त्वावबोधोदये जगन्मिथ्या ब्रह्म सत्यमिति ज्ञानोत्पत्तौ सत्त्वाकारसद्रूपेण प्रकाशितरूप हे राम, पूर्वोक्तमोक्षप्राप्तिरपि त्वामनत्वाप्रणम्य । न त्वदु- पासनां विना कदाचिदपि अन्योपायेन मोक्षप्रसक्तिर्नास्तीत्यभिप्रायः ।।

संन्यासे नियतात्मभिः स्ववगमं वन्याविहारप्रियं
मुन्याराधनतत्परं वसुमतीकन्यासहायं भजे ।
तन्यादेष शुभान्यनन्यसदृशं मन्याशरेन्द्रादृता-
पन्यायक्षितिलोकरक्षणकलाधन्यायमानो विभुः ॥१०१॥

संन्यासे वैराग्ये नियतात्मभिः निश्चलचित्तैः अवगमं अवगन्तुं योगं वन्या वनसमूहः तत्र विहारप्रियं मुन्याराधनतत्परं बसुमतीकन्यासहायं भजे । अनन्यसदृशंमन्याः अहं- कारवन्तः ये आशरेन्द्राः राक्षसा रावणादयः तैः आदृतः आदरेण कृतः अपन्यायः य. स्मिन् तस्य क्षितिलोकस्य भूलोकस्य रक्षणकलाधन्यायमानः रक्षणविद्याप्रवीणः एषः विभुः शुभानि तन्यात् कुर्यात् ।।

सत्राणार्थमजात्मजस्य नृपतेः पुत्रायमाणो हरिः
सत्रासान्विधुरान्न केवलमसावत्रावनीमण्डले ।
सुत्रामप्रमुखैर्मरुद्भिरखिलैः सत्रा जवादेयिवा-
न्यत्रासन्नरकाश्च नारकिजनास्तत्रापि नस्त्रायसाम् ।। १०२॥

सत्राणार्थ सत्परित्राणार्थे अजात्मजस्य नृपतेः दशरथस्य पुत्रायमाणः पुत्रवदाचरमाणः असौ हरिः सत्रासान् भयसहितान् अत एव विधुरान् दुःखितान् अत्रावनीमण्डले केवलं