पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शारीरद्युतिरेखया रुचिरया दूरीकृताम्भोधरं
वारीशस्मयभञ्जनं घनकृपाशारीविहारद्रुमम् ।
गौरीनाथधनुर्द्वहं पदरजोनारीकृतप्रस्तरं
मारीचद्विषमार्तरक्षणकलापारीणमीडे विभुम् ॥ ९६ ॥

रुचिरया शारीरद्युतिरेखया शरीरस्येयं शारीरा शरीरसंबन्धिनी या धुतिः कान्तिः तस्याः रेखया दूरीकृताम्भोधरं वारीशस्मयभञ्जनं घनकृपाशारीविहारद्रुमं शारी पक्षिवि- शेषः । गौरीनाथधनुर्बुहम् । पदरजोनारीकृतप्रस्तरम् । शैलीभूतां अहल्यां पादधूल्या परि- शुद्धामकार्षीत्यर्थः । मारीचद्विषम् ।आर्तरक्षणकलापारीणं विभुं ईडे स्तौमि । 'ईड स्तुतौ'।

शीलालंकृतये हरीशसखये सालागजालच्छिदे
कालायाधिसराय शक्रतनये शैलाकृषा सेनया ।
हेलानद्धजलाकराय कलये नीलाङ्गकायाञ्जलीं-
ल्लीलाकृतनिशाटनायकशिर:कीलालधाराकिरे ॥ ९७ ॥

शीलालंकृतये शीलं सच्चरितं अलंकृतिरलंकारः यस्य तस्मै । हरीशसखये वानरेशस्य सुग्रीवस्य मित्राय । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिः' इत्यमरः ॥ सालागजालच्छिदे सप्तसालप्रभेन्ने शक्रतनये वालिनि कालाय अधिशराय शै- लाकृषा शिलाहारिण्या सेनया हेलानद्धजलाकराय नीलाङ्गकाय लीलाकृतनिशाटनायकशि- रःकीलालधाराकिरे लीलया अनायासेन कृत्तानि च्छिन्नानि निशाटनायकशिरांसि रावण- शिरांसि तान्येव कीलालानि जलानि तेषां धाराः ताः किरतीति तथोक्ताय ।।

श्रीपादन्यसनेन यो मुनिवधूशापापनोदं व्यधा-
त्सोपानं त्रिदिवस्य सेतुमकृताकपारगर्भे च यः ।
कोपादस्त्रमुचं रणे दशमुखं व्यापादयामास य-
श्चापालंकरणः स मेऽस्तु शरणं भूपालचूडामणिः ।। ९८ ॥

यः श्रीपादन्यसनेन दिव्यचरणस्पर्शेन मुनिवधूशापापनोदं अहल्याशापनिवृत्तिं व्यधात् चकार । यः अकूपारगर्भे समुद्रमध्ये त्रिदिवस्य स्वर्गस्य सोपानं तत्प्रापकं सेतुं अकृत । यः रणे कोपात् अस्त्रमुचं दशमुखं व्यापादयामास चापालंकरणःसः भूपालचूडामणिः मे शरणं अस्तु ॥

श्रीहीनं व्यथयन्ति ये धनमदादेहीति याहीति ता-
न्वाहीकानिव न स्मराम्यपि पतीन्दोहीयसीनां गवाम् ।
देहीतीरितमन्तरेण ददते यो हीहितं देहिनां
पाहीति ब्रुवतो रघुद्वह दयावाही स सेव्योऽसि मे ॥ ९९ ॥