पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

मुनयः वेदान्ते ब्रह्मशास्त्रे नादान्तवेद्यं बिन्दुस्वरूपेण वेशः आत्मा यस्य तथोक्तं यत्पा- दाम्बुजं खेदान्ताय जन्मखेदनिवृत्तये हृदि भजन्ति शतमखः इन्द्रः श्रीदान्तः विष्णुः कः ब्रह्मा । 'को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे । मयूरेऽग्नौ च पुंसि स्यात्' इति मेदिनी। अम्भोधिपः समुद्रः एतैः कृतस्तवं वेदाङ्गोपममैथिलीकुचतटखेदाम्बुलेशाङ्कितं मनसि मोदाम्भोधिविहारदं तत्पादाम्बुजं मां पातु ॥

व्यग्रा मन्मथवह्निना मनसिजोदप्राकृतिं प्राप्य यं
विग्रा शूर्पणखा कृता निजवपुष्युग्रा सुमित्राभुवा ।
स ग्रावर्षिवधूकृदङ्घ्रिरजसा सग्राहकूर्माण्डजं
न्यग्राशिं पयसां प्रतप्य कृतवान्नृग्रामणीः पातु नः ।। ९३ ॥

मनसिजोदप्राकृति मन्मथवद्रूपिणं यं निजवपुषि उग्रा । क्रूरशरीरेत्यर्थः । शूर्पणखा राक्षसी प्राप्य मन्मथवह्निना व्यग्रा सती पीडिता सती सुमित्राभुवा लक्ष्मणेन विग्रा विग- तनासिका । 'वेग्रो वक्तव्यः' इति नासिकाशब्दस्य ग्रा इत्यादेशः। कृताङ्गिरजसा प्रावर्षिव- धूकृत् प्रावाणं ऋषिवधूकरोतीति प्रावर्षिवधूकृत् अहल्याशापनिवृत्तिकर्ता सग्राहकूर्माण्डजं पयसां पति न्यग्राशि अल्पसरितं कृतवान् सः नृग्रामणीः नृश्रेष्ठः पातु नः ।।

व्याजानाकलितानि योगिहृदयाम्भोजानि यस्यास्पदं
पूजा यस्य जनाय यच्छति तपोभाजामलभ्यं पदम् ।
यो जानात्युदधिं विशोषयितुमप्योजायमानैः शरै
राजानं तमहं भजे त्रिजगतां श्रीजानकीनायकम् ।। ९४ ।।

यस्य व्याजानाकलितानि निष्कपटानि योगिदहृदयाम्भोजानि आस्पदम् । यस्य पूजा जनाय तपोभाजां तपस्विनां अलभ्यं पदं यच्छति। यः उदधिं ओजायमानैः तीक्ष्णैः शरैः वि- शोषयितुं जानाति । त्रिजगतां राजानं श्रीजानकीनायक सीतापति तं रामं अहं भजे ॥

शम्बालंकृतपाणिवर्णितशरस्तम्बाय पाथोनिधे.
र्जम्बालीकरणेषवे जनकजाबिम्बाधरास्वादिने ।
अम्बानाथजुषाब्जजेन मरुतां संबाध उक्तात्मने
कुम्बाकारकपिव्रजाय करुणालम्बाय तस्मै नमः ।। ९५ ॥

शम्बालंकृतपाणिः इन्द्रः तेन वर्णितः शरस्तम्बः शरसमूहः यस्य । पायोनिधेः समुद्रस्य जम्बालीकरणेषवे जम्बालीकरणं पङ्कीकरणम् । जनकजाबिम्बाधरास्वादिने मरुतां देवानां संबाधे संमर्दै अम्बानाथजुषा सशिवेन अब्जजेन ब्रह्मणा उक्तात्मने उक्तः आत्मा परमात्म- स्वरूपं यस्य । रावणवधानन्तरं ब्रह्मा रामं अस्तौषीदिति रामायणकथा । कुम्बाकारकपिब्र- जाय अतिनिबिडवानरसेनासमावृताय । 'कुम्बा सुगहना वृतिः' इत्यमरः । करुणालम्बाय तस्मै नमः॥