पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

नीलादिप्लवगार्चिताङ्गियुगलीमूलाय लङ्कापते:
कालायाकलयामि भूमितनयाहेलासखायाञ्जलिम् ॥ ८५ ॥

लीलादारितमन्मथारिधनुषे अनायासखण्डितशैवचापाय । सालावलीलाविने छेदिने शीलं सद्भावः तेनावर्जिताः तापसाः यस्य तस्मै । विशिखज्वालावलीढाब्धये अवलीढः पीतः । नीलादिप्लवगार्चिताङ्गियुगलीमूलाय लङ्कापतेः कालाय । भूमितनया सीता । हेलासखाय क्रीडासुहृदे। अञ्जलि आकलयामि ॥

वाचावारितमप्यभीक्ष्णमहह प्राचामृषीणां मता-
नाचारानपहाय धावति मनो नीचावतीर्णे पथि।
हा चापल्यहतस्य तन्नियमने का चातुरी मे ततो
याचाम्यानय मे वशं त्विमिति त्वा चापपाणे विभो ॥८६॥

मे मनः वाचावारितमपि प्राचां ऋषीणां मतानाचारान् अपहाय त्यक्त्वा नीचावतीर्णे पथि नीचगम्ये पथि अभीक्ष्णं पुनः धावति गच्छति । अहह आश्चर्यम् । चापल्यहतस्य मम तन्नियमने तस्य मनसः नियमने स्थिरीकरणे का चातुरी । सामर्थ्य नास्तीत्यर्थः । हा इति खेदे। ततः तस्मात् कारणात् हे चापपाणे विभो, इदं पूर्वोक्तं मनः मे वशं नय इति त्वा त्वां याचामि प्रार्थयामि ॥

वाक्यानामुचितं पदं हृदय वाल्मीक्याननान्निर्यतां
कोक्यानन्दकृदन्वयं भज नमोवाक्या सुरेन्द्रानुजम् ।
केक्यारूढसुराभिरूपवपुषं पाक्याब्धिमस्रौजसा
नाक्याराध्यपदं च जीवपरयोरैक्यावबोधाप्तये ॥ ८७॥

हे हृदय । संबोधनम् । वाल्मीक्याननात् वाल्मीकिमुखात् निर्यता निर्गच्छता वाक्यानां पदानां उचितं योग्य पदं स्थानं कोकानन्दकृदन्वयं सूर्यवंशं सुरेन्द्रानुजं उपेन्द्र केक्या- रूढः सुब्रह्मण्यः तस्य इव आभिरूपवपुषं अस्त्रौजसा आग्नेयास्त्रतेजसा पाक्याब्धि शोषि- तसमुद्रं नाकिनः देवाः तैः आराध्यपदं रामं जीवपरयोः जीवात्मपरमात्मनोः ऐक्याव- बोधः अद्वैतज्ञानं तस्याप्तये प्राप्तये नमोवाक्या भज ॥

वासेनातिजुगुप्सितेपु नगरेष्वासेतुवाराणसि
ग्रासे बद्धरुचिर्न चैव कृतवानासेवनं ते विभो।
त्रासे सत्यधुनातिघोरनरकादासेदुषस्त्वां मम
व्यासेधस्तव किं क्षमो रघुपते दासेषु कर्तुं कृपाम् ।। ८८ ॥

आसेतुवाराणसि काशीरामेश्वरपर्यन्तेषु अतिजुगुप्सितेषु अतिनिन्दितेषु । नगरवासस्य निषिद्धत्वादिति भावः । [नगरेषु वासेन सहित इति शेषः ] ग्रासे भक्षणे बद्धरुचिः