पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

राकेन्दुप्रतिमाननस्य महिमा हा केन वा वर्ण्यते
लोके यत्र दयारसोऽजनि महान्काकेऽपि सान्द्रागसि ।
एकेनैव शरेण येन समरे नाकेशसूनुर्हतः
शोकेनाकुलचेतसां भुवि नृणां साकेतवासी गतिः ॥ ८२ ॥

राकेन्दुप्रतिमाननस्य महिमा लोके केन वा वर्ण्यते । न केनापीत्यर्थः । हा यत्र रामे सान्द्रागसि सीताविषयमहदपराधवति काकेऽपि काकरूपधरे जयन्तेऽपि महान् दयारसः अजनि। येन समरे नाकेशसूनुः बाली एकेनैव शरेण हतः सभुवि शोकेनाकुलचेतसां नृणां साकेतवासी गतिः॥

रूपं यस्य वदन्ति दत्तमदनक्षेपं दुरापं परै-
श्चापं राक्षसमण्डलक्षयकर कोपं च यादृच्छिकम् ।
शापं कोकवधूवियोगजननं व्यापन्नरक्षापरं
भूपं तं बलभग्नभार्गवमहाटोपं नमस्कुर्महे ।। ८३ ॥

यस्य रूपं दत्तमदनक्षेपं कृतमन्मथनिन्दम् । परैर्दुरापं चापं यादृच्छिकं कोपं च राक्षस- मण्डलक्षयकरमिति वदन्ति । यस्य शापं पत्निवधक्रुद्धभृगुशापं कोकवधूवियोगजननं कोकवधूश्चासौ विश्व विः पक्षी तं योजयति पुरुषेण संयोजयतीति कोकवधूवियोगः सूर्यः तद्वंशेऽपि सः तस्मिन् जननं जनयतीति जननं जन्मोत्पादकमिति जनाः वदन्ति । व्यापन्नरक्षापरं शरणागतसंरक्षणधुरंधरं बलभनभार्गवमहाटोपं स्वबलजितपरशुराममहा- गर्वं तं भूपं नमस्कुर्महे ॥

रोषान्धस्य दशाननस्य शिरसां दोषां च यस्त्रिंशतं
पूषाञ्चद्युतिनाशुगेन हृतवान्घोषाङ्किते संगरे ।
एषाङ्गीक्रियतां ममाञ्जलिपुटी दोषान्निमार्ष्टीकृता
शेषाङ्गे शयितस्य तत्रभवतो वेषान्तरेणामुना ॥ ८४ ॥

यः रोषान्धस्य दशाननस्य शिरसां दोषां च । बाहूनामित्यर्थः । त्रिंशतं शिरांसि दश बाहवः विंशतिः आहत्य त्रिशतं घोषाङ्किते गर्जनायुक्तं संगरे युद्धे पूषाञ्चद्युतिना सूर्यसदृशकान्तिना आशुगेन बाणेन हृतवान् । दोषान् निमार्ष्टीकृता निवृत्तकेन शेषाङ्गे शयित्तस्य तत्रभवतः महाविष्णोः वेषान्तरेणामुना रामेण एषा ममाञ्जलिपुटी अङ्गीक्रिय- ताम् । प्रार्थनायां लोट् ॥

लीलादारितमन्मथारिधनुषे सालावलीलाविने
शीलावर्जिततापसाय विशिखज्वालावलीढाब्धये ।