पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

मोधादन्यमिपुं कृतार्णवमव्याघातमाबिभ्रतं
मेघाभं तमहं भजे परिवृढं वैखानसानां प्रियम् ॥ ७८ ॥

यः स्मरतां अघानि पापानि अघानि हतवान् । युधि येन लङ्केश्वरः अघानि हतः। यदीयाः यशसां ओघाः जगत् श्लाघातत्परतां नयन्ति । कृतार्णवमदव्याघातं कृतसमुद्र- मदभङ्गं मोघादन्यं अमोघं इषुं आबिभ्रतं मेघामं वैखानसानां प्रियं परिवृढं प्रभुं भजे ॥

रक्षत्वक्षयमङ्गलप्रदपदत्र्यक्षप्रसादोन्मिष-
द्रक्षःश्रीवृतपङ्क्तिकंधरभुजावृक्षच्छिदापण्डितः।
अक्षय्यप्रबलप्रतापसचिवानृक्षप्लवंगान्नय-
न्नक्षत्रेशसहक्षचारुवदनः स क्षत्रियग्रामणीः ॥ ७९ ॥

अक्षयमङ्गलप्रदपदः अक्षयमङ्गलं मोक्षः। तथाक्षप्रसादोन्मिषद्रक्षःश्रीवृतपङ्क्तिकंधरभु- जावृक्षच्छिदापण्डितः त्र्यक्षः परमेश्वरः तस्य प्रसादेन अनुग्रहेण उन्मिषन्ती वृद्धिमती या रक्षःश्रीः तया परिवृतः पङ्क्तिकंधरः रावणः तस्य भुजा एव वृक्षाः तेषां छिदा छेदः । भुजा- च्छिदाशब्दो आकारान्तौ । तस्मिन् पण्डितः समर्थः । नक्षत्रेशसदृक्षचारुवदनः अक्षय्य. प्रबलप्रतापसचिवान् ऋक्षप्लवंगान्नयन् क्षत्रियग्रामणीः स रामः रक्षतु ॥

रथ्यायां निलये सतां सदसि वा मिथ्यावचो यद्भुवे
तथ्यालापमपि त्यजामि कुशले पथ्यावहेद्यो गतिम् ।
कथ्या तन्मम दुर्गत्तिर्भवति योन्मध्यावहातुं च तां
कथ्यादित्यकुले कृतोदयमिनं तिथ्यां नवम्यां भजे ॥ ८० ॥

रथ्यायां निलये गृहे सतां सदसि वा यत्कारणात् मिथ्यावचः अनृतं ब्रुवे ब्रवीमि । यः कुशले पथि गतिं आवहेत् । तं तथ्यालापमपि त्यजामि । तत्तस्मात्कारणात् कथ्या दुःसहा या मम दुर्गतिः भवति तां उन्मथ्यावहातुं नवम्यां तिथ्यां कथ्यं श्लाघ्यं यदादित्यकुलं तस्मिन् कृतोदयं कृतावतारे इनं प्रभुं भजे ! इनः सूर्ये प्रभौ' इत्यमरः ॥

राकानाथ निभाननं वसुमतीतोकाभिरामाकृतिं
पाकारातिपुरःसरामरसदःशोकापनोदक्षमम् ।
कोकानन्दनवंशजव्रतपरीपाकावकृष्टोदयं
केकावन्नवपिच्छनीलवपुषं लोकामहे चेतसि ॥ ८१ ।।

राकानाथनिभाननं वसुमतीतोकाभिरामाकृतिंं वसुमतीतोकः सीता। पाकारातिपुरःस- रामरसदः शोकापनोदक्षमं पाकारातिः इन्द्रः । कोकानन्दनः सूर्यः तस्य वंशजव्रतपरीपा- कावकृष्टः उत्पन्नः उदयः यस्य तम् । केकावन्नवपिच्छनीलवपुषं केकावन्तः मयूराः तेषां नवपिच्छानि नूतनबर्हाणि तद्वत् नीलशरीरं चेतसि चित्ते लोकामहे ॥