पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला।

आलिङ्गय भद्रकालीमासीनस्तत्र हरिशिलाश्यामाम् ।
मनसि महाकालो मे विहरतु मधुपानविभ्रमन्नेत्रः ॥ ९॥

तार्तीयीको वरणस्तस्योत्तरसीम्नि वातयोजनतः ।
ताम्रेण रचितमूर्तिस्तनुताभाचन्द्रतारकं भद्रम् ॥ १० ॥

मध्ये तयोश्च मणिमयपल्लवशाखाप्रसूनपक्ष्मलिताम् ।
कल्पानोकहवाटीं कलये मकरन्दपङ्किलावालाम् ॥ ११ ॥

तत्र मधुमाधवश्रीतरुणीभ्यां तरलदृक्चकोराभ्याम् ।
आलिङ्गितोऽवतान्मामनिशं प्रथमर्तुरात्तपुष्पास्त्रः ॥ १२ ॥

नमत तदुत्तरभागे नाकिपथोल्लङ्घिश्रृङ्गसंघातम् ।
सीसाकृतिं तुरीयं सितकिरणालोकनिर्मलं सालम् ॥ १३ ॥

सालद्वयान्तराले सरलालिकपोतचाटुसुभगायाम् ।
संतानवाटिकायां सक्तं चेतोऽस्तु सततमस्माकम् ॥ १४ ॥

तत्र तपनातिरूक्षः सम्राज्ञीचरणसान्द्रितस्वान्तः ।
शुक्रशुचिनीसहितो ग्रीष्मर्तुर्दिशतु कीर्तिभाकल्पम् ॥ १५ ॥

उत्तरसीमनि तस्योन्नतशिखरोत्कम्पिहाटकपताकः ।
प्रकटयतु पञ्चमो नः प्राकारः कुशलमारकूटमयः ॥ १६॥

प्राकारयोश्च मध्ये पल्लवितान्यभृतपञ्चमोन्मेषा ।
हरिचन्दनद्रुवाटी हरतादामूलमस्मदनुतापम् ॥ १७ ॥

तत्र नभश्रीमुख्यैस्तरुणीवर्गै- समन्वितः परितः ।
वज्राट्टहासमुखरो वाञ्छापूर्तिं तनोतु वर्षर्तुः ॥ १८ ॥

मारुतयोजनदूरे महनीयस्तस्य चोत्तरे भागे।
भद्रं कृषीष्ट षष्ठः प्राकारः पञ्चलोहधातुमयः ॥ १९॥

अनयोर्मध्ये संततमङ्कूरद्दिव्यकुसुमगन्धायाम् ।
मन्दारवाटिकायां मानसमङ्गीकरोतु मे विहृतिम् ॥ २०॥

तस्यामिवोर्जलक्ष्मीतरुणीभ्यां शरदृतुः सदा सहितः ।
अभ्यर्चयन्स जीयादम्बामामोदमेदुरैः कुसुमैः ॥ २१ ॥


१. 'सरलानिलपीत' क.