पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

देहं नश्वरमन्तकस्य न दया हा हन्त तेनोज्झितुं
मोहं नौमि रुचा विडम्बितपयोवाहं रघूणां पतिम् ॥ ५७ ॥

अहं पुत्रकलत्रमित्रविषये स्नेहं विहातुं न क्षमः । इदं मनश्च साहंकारं सगर्वम् , गुरूपा- सनेन कृतोत्साहं च देह नश्वरं अन्तकस्य दया न । तेन मोहं उज्झितुं त्यक्तु रुचा कान्त्या विडम्बितपयोवाहं तिरस्कृतमेषं रघूणा पतिं रामं नौमि ॥

न श्वानो भुवने भवन्ति सकृदयश्वायमाना यथा
विश्वा निर्जरयातयोऽपि च तथा न श्वायित्ता राघवात् ।
पश्वादिद्रुहिणान्तसर्गरसिके विश्वाधिवासे ततो
विश्वामित्रमखारिवैरिणि वयं विश्वासिनः केवलम् ॥ ५८ ।।

भुवने श्वानः कुक्कराः सकृदपि एकदापि अश्वायमानाः अश्व इव आचरन्तीति त- थोक्ताः यथा न भवन्ति तथा विश्वाः समस्ताः निर्जरजातयोऽपि देवाः राघवात् न श्वा- यिताः न वृद्धियुक्ता । श्विधातुः वृद्ध्यर्थकः । ततः पश्वादिद्रुहिणान्तसर्गरसिके विश्वाधिवासे विश्वेषां समस्तानां अधिवासे वासनिलये विश्वामित्रमखारिवैरिणि वयं केवलं विश्वासिनः।

निर्वाण गमिते शरै रणभुवि स्वर्वायुधारिव्रजे
सर्वासामजनिष्ट यः स्तुतिपदं स्वर्वारवामभ्रूवाम् ।
गुर्वादेशगृहीतकाननगतिर्दुर्वारयादोधिभू-
गुर्वापोहनसाहसी स दुरितं निर्वासयेन्मे विभुः ॥ ५९ ॥

यः रामं रणभुवि स्वायुधारिव्रजे स्वरुः ‘वज्रं शतकोटिः स्वरुः' इत्यमरः । स्वर्वा- युधः इन्द्रः तस्यारयः असुराः तेषा व्रजे समूहे निर्वाणं क्षयं शरैः गमिते प्रापिते सति सर्वासां स्वर्वारवामभ्रुवा रम्भादीना स्तुतिपदं अजनिष्ट । गुर्वादेशगृहीतकाननगतिः पितृ- शासनप्राप्तारण्यः दुर्वारयादोधिभूगर्वापोहनसाहसी अतिदुःसहसमुद्रगर्वभङ्गसाहसी सः विभुः श्रीरामः मे दुरितं निर्वासयेत् निवर्तयेत् । प्रार्थनाया लिङ् ॥

नीलाम्भोदनिभं युगान्तविहरत्कालान्तकभ्रूलता-
लीलाञ्चद्धनुरीरितेषुदलितस्थूलाङ्गलङ्काधिपम् ।
फालान्तश्रमशीकरं युधि चलद्वालाञ्चलोद्घोषकृ-
द्गोलाङ्गूलयुतं भजामि विजयश्रीलाञ्छितं राधवम् ।। ६० ।।

नीलाम्भोदनिभं युगान्त विहरत्कालान्तकभ्रूलतालीलाञ्चद्धनुरीरितेषुदलितस्थूलाङ्गलङ्का- धिपं युगान्ते प्रलयकाले विहरन् यः कालान्तकः शिवः तस्या भ्रूलता तस्या लीला यस्य धनुषः तेनेरिताः इषवः तैः दलितः स्थूलाङ्गलङ्काधिपः यस्य तम् । युधि कालान्तश्रम-