पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

नितालोकनं करुणापूरभरितालोकनम् । मन्दारब्धमहीसुतादृगलिनीवृन्दानुबन्धस्फुर- त्कुन्दालीमधुरस्मितास्यकमलं मन्दारब्धाः मन्दप्रवृत्ता भूसुता तस्याः दृश एव अलिन्यः भ्रमराङ्गनाः तासां वृन्दं समूहः तस्य अनुबन्धः संबन्धः तेन स्फुरन्त्यः प्रकाशमानाः कुन्दाल्यः लक्षणया कुन्दपुष्पसदृशदन्तावल्यः ताभिः मधुरं स्मितं प्रसन्नं आस्यकमलं यस्य तं राघवं वन्दामहे ॥

तारुण्येन महीसुताकुचतटे चारुण्युदीतस्पृहो
दारुण्यतिसमाश्रिते विभवकृत्कारुण्यवान्पातु नः ।
आरुद्रावलोकितो दिवि सुरैर्भीरुद्रवद्राक्षसो
भीरुद्रावणयौवतो युधि धनश्रीरुद्रवज्ज्यो विभुः ।। ४८ ।।

तारुण्येन यौवनेन चारुणि मनोज्ञे महीसुताकुचतटे सीताकुचतटे उदीतस्पृहः उदीता उत्पन्ना स्पृहा यस्य सः । अङ्गिसमाश्रिते दारुणि पादुकायां विभवकृत् महदैश्वर्यकृत् आरु- द्रात् रुद्रमभिव्याप्य दिव्याकाशे सुरैः देवैः अवलोकितः वीक्षितः भीरुद्रवद्राक्षसः भीरवः भीताः द्रवन्तः धावमानाः राक्षसाः यस्मात्सः । भीरुद्रावणयौवतः भिया रोदितीति भीरुत् युवतीनां समूहः यौवतं भीरुत् रावणयौवतं यस्य सः । घनश्रीः घनस्य श्रीः शोभेव श्रीर्य- स्य सः युधि उद्रवज्ज्यः उत् रवती अधिकशब्दायमाना ज्या मौर्वी यस्य सः ।।

तुल्या यस्य न सन्ति चापकुशलावल्यामिलामण्डले
कल्यासङ्गमुषा यदङ्घ्रिरजसाहल्या पवित्रीकृता ।
कुल्यावज्जलधिं बबन्ध किल यो बल्याशरच्छित्तये
कल्याणाय स मेऽस्तु साशुगधनुर्वल्लया विराजत्करः ॥४९॥

इलामण्डले भूमण्डले । चापकुशलावल्यां धानुष्कसंघे तुल्याः यस्य न सन्ति । कल्या. सङ्गमुषा कल्यं पापं तस्य आसङ्कः संबन्धः तं मुष्णातीति मुषा यदङ्घ्रिविरजसा यच्च- रणपांसुना अहल्या पवित्रीकृता परिशुद्धीकृता । यः रामः बल्याशरच्छित्तये बलिनः ब- लिष्टाः ये आशराः राक्षसाः तेषां च्छित्तिः छेदः तस्मै जलधिं समुद्रं कुल्यावत् अल्पस- रिद्वत् बबन्ध । साशुगधनुर्वल्लया सबाणधनुर्लतया विराजत्करः विराजितहस्तः सः रामः मे कल्याणाय अस्तु॥

त्रस्तोपागतलोकरक्षणविधावस्तोकमुद्यत्कृपो
निस्तोयीकरणे च यो जलनिधेरस्तोपमस्तेजसा ।
शस्तोऽपि स्तुतिकृत्सु पारयति यं न स्तोतुमस्मिन्मया
हस्तोपात्तधनुः शरे भगवति न्यस्तोऽखिलोऽयं भरः ॥५०॥

त्रस्तः भीतः उपागतः समीपं प्राप्तः यः लोकः तस्य रक्षणविधौ अस्तोकं अधिकं उद्य-