पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

श्रीदुर्वाससा विरचितं

श्रीललितास्तवरत्नम् ।

वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् ।
कुङ्कुमपरागशोणं कुवलयिनीजारकोरकापीडम् ॥ १ ॥

स जयति सुवर्णशैलः सकलजगञ्चक्रसंघटितमूर्तिः ।
काञ्चननिकुञ्जवाटीकन्दलदमरीप्रपञ्चसंगीतः ॥२॥

हरिहयनैर्ऋतमारुतहरितामन्तेष्ववस्थितं तस्य ।
विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम् ॥ ३ ॥

मध्ये पुनर्मनोहररत्नरुचिस्तबकरक्षितदिगन्तम् ।
उपरि चतुःशतयोजनमुत्तुङ्गं शृङ्गपुङ्गवमुपासे ॥ ४ ॥

तत्र चतुःशतयोजनपरिणाहं देवशिल्पिना रचितम् ।
नानासालमनोज्ञं नमाम्यहं नगरमादिविद्यायाः ॥ ५ ॥

प्रथमं सहस्रपूर्वकषट्शतसंख्याकयोजनं परितः ।
वलयीकृतस्वगात्रं वरणं शरणं व्रजाम्ययोरूपम् ॥ ६॥

तस्योत्तरे समीरणयोजनदूरे तरङ्गितच्छायः ।
घटयतु मुदं द्वितीयो घण्टास्तनसारनिर्मितः सालः ॥ ७ ॥

उभयोरन्तरसीमन्युद्दामभ्रमररञ्जितोदारम् ।
उपवनमुपास्महे वयमूरीकृतमन्दमारुतस्यन्दम् ॥ ८ ॥


१.अस्य श्रीललितास्तवरत्नस्य पुस्तकद्वयमासादितम्. तत्रैकं क-चिहितं जयपुरराज-

गुरुभश्रीनारायणपर्वणीकराणाम् , अपरं च ख-चिह्नितं चातुर्वैदिकगौडरामचन्द्रतनू- जनाथूनारायणशर्मणाम्.