पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तुदन्ति । 'तुद व्यथने' 1 न मृषा न मिथ्या । तेन कारणेन मलीमसं' मलिनं भवति । ततः भावि भविष्यत्किं कृत्यं न किमपि । इत्यन्तः मनः । अन्तावसरे सति मरणकाले ॥

अस्तूपस्थितमम्बुवृत्तिरिति यो वस्तूनि नापेक्षते
कस्तूरीप्रभृतीनि तस्य विषयाः स्युस्तूलवन्निष्फलाः ।
यस्तूरीकुरुतेऽथ तान्मुरहरो मस्तूनि दध्नो यथा
धुस्तूरभ्रजयीज्य तस्य कृपयैनस्तूर्व मे राघव ॥ ६ ॥

अम्बुवृत्तिः अव्भक्षणम् । उपस्थितं अनायासलभ्यम् । मस्तूनि मण्डानीव । द्युस्तूरम- जयीज्य द्युस् आकाशः तत्र तूर शब्दायमानं यदभ्रं तं जयतीति जयिनी ज्या मौर्वी यस्य । संबोधनम् । 'मौर्वी ज्या शिजिनी गुणः' इत्यमरः । तस्य मे विषयाभिभूतस्य एनः पापं तूवे नाशय । 'कलुषं वृजिनैनोऽघम्' इत्यमरः ॥

अन्ये संसृतिसागरस्य हिमवत्कन्येशमुत्तारकं
मन्येरंस्तमहं तु वेद्मि ननु यो मुन्येकगम्यात्मकः ।
धन्ये जन्म गृहीतवान्रघुकुले जन्ये विभिन्नार्यसृ-
ग्धुन्येषत्करपाटलिम्नि परमा निन्ये नुतिर्ब्रह्मणा ॥ ७ ॥

अहं तं यः रघुकुले जन्म गृहीतवान् उत्तारकं वेद्भि । युद्धे असृग्धुन्या रक्तनद्या ईष- त्करपाटलिम्नि । यस्मिन् रामे इत्यध्याहार्यम् । ब्रह्मणा विधिना नुतिः निन्ये कृता । राव- णवधानन्तरं ब्रह्मागत्य राममस्तौषीदिति रामायणकथात्रानुसंधेया ।

आरोहव्यपनीतमेखलमपास्तोरोजहारं रिपु-
स्त्रीरोदं विरचय्य येन विजयश्रीरोचमानौजसा ।
आरोपाद्विरतं शरस्य धनुषि स्फारोदयत्कीर्तिना
धीरोदात्तमिमं भजे रघुपतिं नीरोगतावाप्तये ॥ ८॥

येन रामेण धनुषि शरस्य आरोपात् विरतम् । उपरतमित्यर्थः । रिपुस्त्रीरोदमित्यस्य विशेषणद्वयमेतत् । आरोहव्यपनीतमेखलं अपास्तोरोजहारं पुंसामाश्रमचतुष्टयवत् स्त्रीणा- माश्रमत्रये अन्त्याश्रमस्य वैधव्यस्यारोहात् व्यपनीतमेखलमित्यर्थः । नीरोगतावाप्तये रोगनिवृत्तये इत्यर्थः ॥

'आशापूरणमाकलय्य भजतां क्लेशापहं सर्वदा
नाशाय द्विषतामुपासत दिशामीशाय मुक्त्या विधेः ।
कीशाकारधरैः सुरैश्च रुरुधे नैशाचरीं यः पुरी-
मीशानायुधमञ्जनाय करुणाकोशाय तस्मै नमः ॥ ९ ॥