पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। शता । असान्त्वयत् । १५६८ षान्त्व सामप्रयोगे । लड् । सुश्वल्कनेति । १५६९ श्वरक १५७० वल्क परिभाषणे । श्वल्केयुट् । वल्कनाभिः । बल्केः 'वास- श्रन्थ:--' इति युच् । प्रस्नेहयन् । १५७१ पिाह स्नेहने । शता । असिस्मिटत् । १५७२ स्मिट अनादरे । लुडि बड़ ॥ कः स्माययेत विभुमेनमशिश्लिषद्यः पन्थन्ब्रजेऽत्र भवपिच्छनभारिभरेव । छन्दछुचं वरमशिश्रिणदाश्रितानां संताडनैर्वृषभदैत्यमखाडयञ्च ॥ १८ ॥ योऽत्र बजे पन्थन् संचरन् भवपिच्छनभाग्भिः संसारच्छेदभारिभरासनमुक्तिभिरे- वाशिश्लिषत् सैपक्षं प्राप्तवान् । एनं विभुं कः स्माययेतानाद्रियेत । आश्रितानां शुचं छ- न्दन नाशयन् वरं प्रार्थितमशिश्रिणत् दत्तवान् । संताडनैः प्रहारैः धृषभदैत्यमखाडयत् विदारितवांश्च ॥-स्माययेत । १५७३ स्मिङ् अनादरे इत्येके । डित्वात्तठेव । अस्मा- ल्लिङ् । अट स्मिट गतावित्यप्यन्ये । अशिश्लिषत् । १५७४ श्लिषश्लेषणे । लुङि चड्। पन्धन् । १५७५ पथि गतौ । शपि शता । पिच्छनेति । १५७६ पिच्छ कुटने । ल्युट्। छन्दन् । १५७७ छदि संवरणे । शपि शता । अशिश्रणत् । १५७८ श्रण दाने । प्रायेण विपूर्वः । अस्सा डि चड् । संताडनैः । १५७९ तड आघाते । शोभा- यांच द्रुमे । ल्युट अालयन् । १५८० खड १५८१ खडि १५८२ कडि भेदने । अन्त्यो रक्षणे च द्रुमे । खडेलड् ॥ अश्वं व्यखण्डदचकण्डद्घासुरादी- न्धेनूरकुण्डभिगुण्डितपीतचेलः । किंच स्वगात्रमवकुण्ठयतो महाहे- ईपै चुखुण्ड विषमेष मुखाद्विवण्टन् ॥ १९ ॥ किं च । अश्वं व्यखण्डत् , अघासुरादीन् अचकण्डत् । द्वयोरखण्डयदित्यर्थः । धेनूरकुण्डत रक्षितवान् । अभिगुण्डितं चेष्टितं पीतचेलं येन सः । खगात्रमवकु- ण्ठयतश्छादयतः । महाहेः कालियस्य मुखात् विषं विवण्टन विभाजयन् छर्दयन् दर्प चु- खुण्ड खण्डितवान् ॥व्यखण्डदिति । खण्डेः शपि लड् । अचकण्डत् । कण्डेणिचि चङ् । अकुण्डत् । १५८३ कुडि रक्षणे । शपि लड् । अभिगुण्डितेति । १५८४ गुडि वेष्टने । रक्षणे चैके। कुठि इत्यन्ये । गुण्डेः कर्मणि क्तः । अवकुण्ठयतः । कुण्ठेः शता। चुखुण्ड । १५८५ खुडि खण्डने । णिजभावे लिट् । विवण्टन् । १५८६ वटि विभाजने । वडि इसके । वण्टेः सपि शता॥ १. 'छेदनामिः पाठः. २. संपर्क पाठः