पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

त्यमरः । तस्य आविष्कृतिः उत्पादनं तत्र लम्पटा समर्था इषुपटली बाणसमूहः तया लव्यः छेद्यः आशराधीश्वरः रावणः यस्य स तथोक्तः। रविणा सूर्येण आसादिता दोःप्रता- पतुलना बाहुप्रतापसाम्यं यस्य सः। हव्यं अश्नातीति हव्याशः अग्निः तद्भवः सुब्रह्मण्यः स इव सुन्दरः सौन्दर्यवान् । क्रव्यमश्नन्तीति क्रव्याशाः राक्षसाः तेषां वैरी शत्रुः ॥

अम्बा कोसलनन्दना दशरथो लम्बालकान्तं पिता
यं बालं समवेक्ष्य कैरवसुहृद्विम्बाननं नन्दिनौ ।
शम्बामर्शसमाङ्गवानरचमूसंबाधबद्धाम्बुधिं
तं बाणाहतरावणं शरणमालम्बामहे राघवम् ॥ २ ॥

अलकाः चूर्णकुन्तलाः तेषां अन्तानि अग्राणि लम्बानि अलकान्तानि यस्य सः । कैरवसुहृत् चन्द्रः तस्य बिम्बं मण्डलम् । 'बिम्बोऽस्त्री मण्डलं त्रिषु' इत्यमरः । तदिव आननं मुखं यस्य सः । शम्बामर्शः वज्रस्पर्शः । तं राधवं रघोः गोत्रापत्यं रामं शरणं रक्षकं आलम्बामहे । वयमिति शेषः ।।

अम्भोदद्युतिमर्कवंशतिलकं कुम्भोरुलङ्कापुरी-
रम्भोरुकुचबाष्पपूरपतनारंभोपयुक्ताहवम् ।
शंभोरायुधचापशैलदलने दम्भोलिकेलीजुषं
तं भो मास्तु गिरां ममेति कलये तं भोगमोक्षप्रदम् ॥ ३॥

कुम्भाविव उरु कुचयोः विशेषणम् महान्तावित्यर्थः । रम्भे इव ऊरू यासां ताः रम्भोर्वः। लङ्कापुर्या विद्यमानाः रम्भोर्वः राक्षस्यः तासां कुचौ तयोः बाष्पपूरः नेत्राश्रुप्रवाहः ।।

अंसासक्तनिषङ्गमाशरचमूहिंसानपेतायुधं
संसारामयभेषजाह्वयपदं हंसान्वयालंकृतिम् ।
पुंसामुत्तममात्तचापविशिखं तं साधुसंसेवितं
शंसामीप्सितदायकं यदि न किं किं साधयेयं फलम् ॥४॥

अंसयोः बाहुमूलयोः आसक्तौ निषङ्गो शरधी यस्य तम् । आशरचम्वाः हिंसायाः अनपेतं आयुधं यस्य तम् । हंसः सूर्यः । 'भानुहंसः सहस्रांशुः' इत्यमरः । तं तादृशं यदि न शंसामि न स्तौमि यदि किं फलं साधयेयम् । न किंचिदपीत्यर्थः ॥

अत्यन्तं विषयास्तुदन्ति हृदयं सत्यं मृषा न त्विदं
नित्यं तेन मलीमसं भवति मे कृत्यं ततो भावि किम् ।
इत्यन्तः परितप्यते रघुपते गत्यन्तरं नास्ति मे
सत्यन्तावसरे त्वमेत्य सहसा भृत्यं तदा पाहि माम् ॥