पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ काव्यमाला। अक्षेतुं हन्तुं समनुद्रुतेन वेगानुगतेन गजेन करेण बद्धो भगवान् विहातें वृणानः वी. कुर्वन् निबद्धं श्रश्नन् विमोचयन्नमुं गजं तलैराशु अमनात् ताडयामास । कीदृशेन ग- जेन । बीताशबंहितजुषा बीताशं छादितदिक्तटं बृंहितं गर्जितं कुर्वता । अम्रिणता अभीतेन ॥--नीति ।१५०५ बी बरणे । गतौ च द्रुमे । कर्मणि कः । अभिणता । १५०६ भ्री भये । भरणे' इति केचित् । शता । अस्य ल्वादित्वमप्यस्ति द्रुमे । प्रक्षे- तुम् । १५०७ क्षीय हिंसायाम् । तुमुन् । अज्ञेति । १५०८ झा अवबोधने । 'इगु- पधज्ञाप्रीकिरः कः' इति कः । बद्धः । १५०९ बन्ध बन्धने । कर्मणि कः । ज्यादयो- ऽनुदात्ताः परस्मैभाषाः । वृणानः । १५१० वृङ् संभक्तौ । संभक्तिः खीकारः । उदात्त आत्मनेभाषः । शानच् । श्रनन् । १५११ श्रन्थ विमोचनप्रतिहर्षयोः । प्रतिहत न ज्ञातः । अस्माच्छता । अमश्नात् । १५१२ मन्थ विलोडने । लड् ॥ तगन्थनं परिहरन्गतिभिर्विकुथ्य पृष्ठे करोन्मृदितपुच्छमकर्षदेनम् । भूयो निपात्य मृडितस्वजन: स गुन्ध- न्दन्तौ विकुष्य गजमुक्षुभितं व्यनन्नात् ॥ १० ॥ स श्रीकृष्णो गतिभिः संचारभेदैस्तद्वन्यनं तस्य बन्धनं परिहरन् वर्जयन् । एनं पृष्ठे विकुथ्य संश्लिष्य निलीय करोन्मृदितपुच्छं हस्तसंचूर्णितलाशूलं सन्तमकर्षत् । क्रिया- विशेषणं वा । भूयो गुथ्नन् कुप्यनुत्क्षुभितं गजं निपात्य दन्तौ विकुष्य उन्मील्य व्यनन्नात् अहिंसीत् । मृडितखजनः सुखितबन्धुजनः ॥-ग्रन्थन मिति । १५१३ ग्रन्थ संदर्भ । श्रन्थमपि केचित् पठन्ति । ग्रन्थेयुट् । विकुथ्य । १५१४ कुन्थ संश्लेषणे । संक्लेशे इति केचित् । कुथ इत्येके । द्वयोतन्त्रेण ल्यप् । उन्मृदितेति । १५१५ मृद क्षोदे। संचूर्णनं तत् । कर्मणि क्तः । १५१६ मृड च । क्षोदे इति शेषः । सुखे चेति केचित् । सुखने इत्यन्ये । अस्मात् कर्मणि क्तः । गुन्धन् । १५१७ गुध रोषे । शता । विकुष्य । १५१८ कुष निष्कर्षे । स च बहिनिःसारणम् । ल्यप् । उत्क्षुभितम् । १५१९ शुभ संचलने । कर्तरि क्तः । व्यनन्नात् । १५२० णम १५२१ तुभ हिंसायाम् । लड् ॥ आधोरणानपि च दन्तवरेण तुम्नन् क्लिभन्मतिं पलसुरादिकमश्नतां सः। भ्रस्तं फलप्रकरमुभ्रसितांश्च शाली- न्प्रादद्भिरैष्यत गिरा परिविष्टपापैः ॥ ११ ॥ आधोरणान् हस्तिपकान् अपि च दन्तवरेण तुम्नन् हिंसन् स श्रीकृष्णः प्रस्तमुञ्छ- नेनार्जितं फलप्रकरमुध्रसितान्' उञ्छनार्जितान् शालींच प्रादर्भिक्षयद्भिः सद्भिगिरा ऐ- ष्यत पुनः पुनः भृशं वा स्तुतोऽभूत् । कीदृशः श्रीकृष्णः । पलसुरादिकं मांसमद्यादिकम-