पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ काव्यमाला। मोदस्कुतोऽथ कबरी प्रयुनन्सरामः नन्मृदङ्गमिह रङ्गमगादरिद्रः ॥ ५ ॥ अर्थशः कबरीं प्रयुनन् बनन् सरामो रामेण सहित इह अस्मिन् काले रङ्गमगात् । कीदृशः । गुणैर्जनमति क्रीणन् विनिमयन् वशीकुर्वन् मांसश्रियां मांसपाचकानां तद्भ- क्षिणां प्रमयकृत् हिंसनकृत् सितपीतचेलो बद्धपीताम्बरो मोदे स्कुत आप्ठतः । अरिद्रूः शत्रुहिसकः । नूनन्मृदङ्गम् । नूनन् शब्दायमानो मृदङ्गो यस्मितं रङ्गम् ॥---क्रीण- निति । १४७३ ड क्रीजू द्रव्यविनिमये । शता । नियेति । १४७४ प्री तर्पणे कान्तौ च । कान्तिः कामना । 'इगुपधज्ञाप्रीकिरः कः' इति कः। मांसश्रियाम् । १४७५ श्री पाके । विप् । प्रमयेति । १४७६ मीङ् हिंसायाम् । एरच्' । सितेति । १४७७ षिव् बन्धने । कर्मणि क्तः । स्कुतेति । १४७८ स्कुभू आप्रवणे । आल. • बनं तत् । आवरण इत्येके । उद्धृताविति द्रुमे । अस्मात्कर्तरि तः । सुनन । १४७९ युञ् बन्धने । शता । श्यादयोऽनुदात्ता उभयतोभाषाः । छूनदिति । १९८० कुल्लू शब्दे । शता । अरिद्रूः । १४८१ दूनू हिसायाम् । इत्यप्येके । किम् ।। द्वारं पुनन्पदतलेन स लूनवैरी स्तीर्णाननं मदजलेन करीतुकामम् । नागं ददर्श पटवूर्णमुखं धुनानं कौं शृणन्तमखिलानभिपूर्तरोषम् ॥ ६ ॥ स श्रीकृष्णः पदतलेन द्वारं पुनन् श्रीपादारविन्द रङ्गद्वारि निदधानः सन् । तत्र क- रीतुकामं हिंसितुमिच्छु नाग कुवलयापीडाख्यं गजश्रेष्ठं ददर्श । लूनवैरी छिन्नशत्रुः । की- दृशं नागम् । मदजलेन स्तीर्णाननं छन्नवक्त्रम् । पटवूर्णमुखं पटच्छादितं मुखं यस्य तम् । कर्णी धुनानं कम्पयन्तम् । अखिलान् शृणन्तं हिसयन्तम् । अभिपूर्तरोषं संपूर्ण- रोषम् ॥-पुननिति । १४८२ पूञ् पवने । पवनं शोधना । शतरि ‘प्वादीनां हवः' इति ह्रखः । लूनेति । १४८३ लू छेदने । कर्मणि क्ते 'ल्वादिभ्यः' इति नत्वम् । स्तीर्णेति । १४८४ स्तृञ् छादने । कर्मणि क्तः। करीतुकामम् । १४८५ कृञ् हि. सायाम् । तुमुनि 'तुमः कामे मनस्यपि' इति मलोपः । बूर्णेति । १४८६ बृजू वरणे । भरण इत्यप्येके । धुनानम् । १४८७ धूञ् कम्पने । शानच् । यादय उदात्ता उभयतो- भाषाः । शृणन्तम् । १४८८ शू हिंसायाम् । शता । अभिपूर्तेति । १४८९ पालन- पूरणयोः । कर्तरि ते 'न ध्याख्यापृमूर्छिमदाम्' इति नत्वाभावः ॥ तत्र स्परीतुमनसं रुषमावृणन्त- मम्वष्टमुन्मदभरं स भृणन्बभाषे।