पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । तृहेर्लट् । हिनसाम । हिंसेर्लोट् । समुत्तम् । १४५७ उन्दी क्लेदने । कर्मणि क्तः । 'नुद्- विदोन्द-' इति नत्वाभावे रूपम् । अक्तेति । १४५८ अन्जू व्यक्तिम्रक्षणकान्तिगतियु। व्यक्तिः प्रकाशनम् । प्रक्षणं मिश्रीकरणम् । अस्मात्कमणि क्तः। संततेति । १४५९ तन्चू संकोचने । तन्जू इत्येके । द्वयोस्तन्त्रेण कर्मणि कः । परिवेगेति । १४६० सोविजी भन्यचलनयोः । धम् । वृत्ताः । १४६१ वृजी वर्जने । वृतौ च द्रुमे । 'ची वरणे' इति केचित् । कर्मणि क्तः । यत्रुः । १४६२ पृची संपर्के । सकर्मकोऽयं महिनोक्तः । तस्मालिट् । तृहादय उदात्ता उदात्तेतः । वृत् रुबायो वृत्ताः । इति श्रमूनिकरणम् ॥ तन्वन्स मञ्चभुवि सातरसः स्वबन्धू- नक्षण्वतां क्षितिकरो मुदमर्णवानः । कंसस्तृणीकृतरिपुणिमान्यताप्ति मन्वान एकमथ मञ्चमलंचकार ॥४॥ अथ स कंसः स्वबन्धून मञ्चभुवि तन्वन् विस्तारेण निवेशयन् तत्तत्स्थानेषु कुर्वन् वा। वताप्ति प्रार्थितप्राप्ति मन्वानः एक मञ्चमलंचकार अलंकृतवान् । सातरसो दत्त- रसः । बन्धूनामित्यर्थात् । अक्षम्वतामहिंसकानां क्षितिकरः हिंसनकृत् । मुदमर्णवानः प्रा. मुवन् । घृणिमाशोभावान् ॥ तन्वन् । १४६३ तनु विस्तारे । अयं कृञर्थेऽपि । अस्माच्छता । सातेति । १४६४ षणु दाने । कर्मणि क्के । 'जनसन-' इति आत्वम् । अक्षण्वताम् । १४६५ क्षणु हिंसायाम् । १४६६ क्षिणु च । क्षणे: शता । क्षि- तीति । क्षिणेः तिन् । 'अनुदात्तोपदेश-' इति नलोपः । अर्णवानः । १४६७ ऋणु गतौ । शानच् । तृणीकृतेति । १४६८ तृणु अदने । घबर्थे कः । तृणम् । तस्मात् अ- भूततद्भावे इति च्विः । धृणीति । १४६९ घृणु संदीपने । घण इत्येके । 'इकृषादिभ्यः' इति घृणेरिक् । तनादय उदात्ताः खरितेतः । वतेति । १४७० वनु याचने । बनेः कर्मणि कः । मन्वानः । १४७१ मनु अवबोधने । शानच् । उदात्तावनुदात्तेतौ । बनुः परस्मैपदीति चान्द्राः अलंचकार । १४७२ ड क करणे । अनुदात्त उभय- तोभाषः । अस्माल्लिट् । उविकरणं समाप्तम् ॥ अथ भगवतो रङ्गप्रवेशमाह- क्रीणन्गुणैर्जनमति प्रियरूप ईशो मांसनियां प्रमयकृत्सितपीतचेलः । १. 'अवृतकृता इत्येके । तेन लुनत्तीति सिद्धम्' इति कचिदधिकः पाठः. २. 'दीप्तौ' इति धातुपाठे.