पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। चिर् विरेचने । शता। विविक्तेति । १४४२ विचिर पृथग्भावे । कर्मणि क्तः । चुक्षोद । १४४३ क्षुदिर् संपेषणे । लिट् । उदयुत । १४४४ युजिर योगे । लड् । 'अजादे- रप्यजन्तादप्युपसर्गात्तड्डिष्यते' इति तड्डेव । रुधादयोऽनुदात्ताः [स्वरितेत उभयतो- भाषाः ॥ संच्छृण्णगात्रमथ शात्रवर्दिनस्ते चाणूरमुष्टिकमुखा वसनान्यकृन्तन् । इन्धानखेदमुद्विन्त विशिष्टलोकः पेक्ष्यत्सु माधवमभङ्गभुजेषु तेषु ॥ २ ॥ अथ ते चाणूरमुष्टिकमुखाः संच्छृष्णगात्रं सम्यक् दीप्तं गात्रं यस्मिन् तथा वसनानि मल्लयुद्धोचितानि अकृन्तन्नवेष्टन्त । शात्रवाणां शत्रूणां तदनं हिंसनमनादरो वा शीलं येषां ते मल्लाः । विशिष्टलोकः सज्जनस्तेषु माधवं पेक्ष्यत्सु संचूर्णयिष्यत्सु । हेतौ शता। इन्धानखेदं वर्धमानं दुःखं यस्मिन् तथा । उदविन्त उच्चैर्विचारमकरोत् । अभङ्गभुजेषु भङ्गरहितः शक्तिक्षयरहितो भुजो येषां तेषु ॥-संच्छृण्णेति । १४४५ उच्छृदिर दीप्तिदे- वनयोः । देवनं क्रीडाविजिगीषादि । 'दीप्तिवमनयोः' इत्येके । अस्मिन् कर्तरिः कः । शात्रवतर्दिनः ।१४४६ उतृदिर हिंसानादरयोः । णिनिः। द्वावुदात्तौ।रुधादयः खरितेत इरितश्च । अकृन्तन् । १४४७ कृती वेष्टने । उदात्त उत्तात्तेत् । लड् । इन्धानेति ।१४४८ जि इन्धी दीप्तौ । दीपनायामपि । उदात्तोऽनुदात्तेत् । अस्माच्छानच् । खेदम् । १४४९ खिद दैन्ये । पञ्। उदविन्त । १४५० विद विचारणे । लड् । अनुदात्तावनुदात्तेतौ । वि- शिष्टेति । १४५१ शिष्ल विशेषणे। उत्कर्षार्थत्वात् । अकर्मकादस्मात् कर्तरि कः । पे- क्ष्यत्सु । १४५२ पिष्ल संचूर्णने । सृदि हेतौ शता । अभङ्गेति । १४५३ भो आमदने । घन् । भुजेति । १४५४ भुज पालनाभ्यवहारयोः । अनुभवेऽपि । 'भुजन्यु- ज्जौ पाण्युपतापयोः' इति निपातितः । शिषादयोऽनुदात्ता [ उदात्ततः ] ॥ को नस्तृणेढि हिनसाम समुत्तमात्रै- स्तं गोपसूनुमिति तैललवाक्तगात्राः ।। संतक्तनद्धवसनाः परिवेगवृक्ता रॉ समेत्य पपृचुः खजनांश्च मल्लाः ॥ ३ ॥ को नोऽस्सांस्तृणेढि निहन्ति । न कोऽपि तं गोपसूनुमासै रुधिरैः समुत्तं सिक्काई कृत्वा वयं हिनसाम मारयाम । मल्ला इति एवमुक्त्वा रङ्गं समेत्य खजनान् पपृचुर्योजित- वन्तः। कीदृशा मलाः। संतक्तं संकोचितं यथा तथा नद्धं बद्धं वसनं यैस्ते। परिवेगेन भ- येन कम्पन वा वृक्ता हीनाः ॥-तृणेढीति । १४५५ तृह १४५६ हिसि हिंसायाम् ।