पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । भुक्त्वा गोरससिक्तमन्नमजित: कंसस्य कृन्तन्मुदं तं खेत्स्यन्पिशिताशदारुणमसौ मोदेन निन्ये निशाम् ॥८४॥ असावजितो मित्रैः संमिलमानो नगरोद्यानमेत्य भयलोपिवाग्मिर्मयनिरासकैर्वचनैर्गो- पानां भयं विमुञ्चस्त्यजन् अबलाविघ्नं कुब्जाया लब्धमनुलेयं वहन् धारयंश्च गोरससिक- मन्नं भुक्त्वा कंसस्य मुदं कृन्तश्छिन्दन निरस्यन् तं कंसं खेत्स्यन् निहनिष्यन् । हेतौ शता । मोदेन निशां निन्ये ।।-संमिलमान इति । १४२९ मिल संगमे । उदात्तः खरितेत् । शानच् । विमुञ्चन् । [१४३० मुच्ल मोक्षणे । ] इतः परं मुचादित्वानुम् । शता । भयलोपीति । १४३१ लुप्ल छेदने । णिनिः विनेति । १४३२ विद्ल लाभे। कर्मणि क्तः । अनुलेपम् । १४३३ लिप उपदेहे। अस्य दहतार्थत्वमप्याह शंकराचार्यः । अस्माद्धञ् । सिक्कम् । १४३४ षिच क्षरणे । तत्रेहाद्रीभवनम् । कमणि कः । मुत्रा- दयोऽनुदात्ताः खरितेतः । विन्दिः सेडिति केचित् कृन्तन् । १४३५ कृती छेदने । उदात्त उदात्तेत् । छता। खेत्स्यन् । १४३६ खिद परिघाते । अनुदात्त उदात्तेत् । लडन्ताच्छता । पिशितेति । १४३७ पिश अवयवे । अयं दीपनायामपि । उदात्त उदात्तेत् । भक्षणार्थमवयवशः क्रियते इत्यर्थे 'पिशिषिभ्यां कित्' इति भोजोक्तरितच् । वृत् । तुदादयो मुचादयश्च वृत्ताः । शविकरणं समाप्तम् ।। इति सव्याख्याने धातुकाव्ये द्वितीयः सर्गः । तृतीयः सर्गः। अथानन्ताभारहरणोद्यतस्थानन्तस्य भगवतः श्रीकृष्णमा ही दिवसानं सत्रानं वाई- यिष्यन् प्रथमतो रङ्गप्रवेशं वक्तं पीटिकां प्रतिष्ठापयति---- रुन्धन्दिशो दिनमुखेऽथ जगन्ति भिन्द- न्प्रच्छिन्नसंशयमतिर्मुदमाशु रिश्चन् । भेरीरवश्चतुरघातविविक्तताल- चुक्षोद कर्णमुद्युत च मल्ललोकः ॥ १॥ अथ दिनमुखे भेरीरवः कणे चुक्षोद श्रोत्रपुटं चूर्णीचकार ! कीदृशो भेरीरवः । दिशो रुन्धन् पूरयन् । जगन्ति लोकान् भिन्दन् विभिद्य बहिर्गच्छन् । प्रच्छिन्नसंशया कंसव्य- वसायबोधिनी मतिर्येन (?)सः। अत एव सर्वेषां मुदं रिश्चन् त्यजन् चतुरेण विदग्धेन घाते- नाभिहननेन विविक्ताः स्पष्टीकृतास्ताला यस्मिन् सः । मल्ललोक उदयुत चोद्युत्तोऽभूछ।- रुन्धनिति । १४३८ रुधिर् आवरणे । भिन्दन् । १४३९ भिदिर विदारणे । द्वयोः शता । प्रच्छिन्नेति । १४४० छिदिर द्वैधीकरणे । कर्मणि क्तः । रिञ्चन् । १४४१ रि- १. 'स्त्याजयन्' इति भवेत्. २. 'सेडिसि' इति पाठः.