पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। गयोः । कर्तरि क्तः । 'निष्ठायामण्यदर्थे' इति दीर्घः । 'क्षियो दीर्घात्' इति नत्वम् । प्रसूतेति । १४०८ धू प्रेरणे । कर्मणि क्तः । व्यकारीत् । १४०९ कृ विक्षेपे । लुड् । गरम् । १४१० गृ निगरणे । अच् । रियत्यादयः परस्मैभाषाः । अनादरेति । १४११ दृङ् आदरे । अत्रैव निपातनात् पञ्यवृद्धिः । धृतः । १४१२ धृङ् अवस्थाने । बार- णे व द्रुमे । अनुदात्तावात्मनेभाषौ । पृच्छन् । १४१३ प्रच्छ ज्ञीप्सायाम् । तुन् । शता। 'अहिज्या-' इति संप्रसारणम् । वृत् । किरादिवृत्तः । उत्सृजन् । १४१४ सृज विसर्गे । विसर्गः उत्पादनं त्यागश्च । शता । भन्नेति । १४१५ टु मस्जो शुद्धौ । क- तरि कः । रुजि । १४१६ रुजो भझे । भावे क्विप् । भुन्नेति । १४१७ भुजो को- टिल्ये। कर्तरि क्तः ॥ वापरक्षकेषु ह्तेषु कंसः पर्याकुलचित्तोऽपि मल्लयुद्धोद्योगमकरोदित्याह-- रोषच्छुप्तधियाथ रोष्टुमभितो योधान्द्विषद्रेशका- नालिष्टानजितो जघान धनुषः खण्डेन मर्मस्पृशा । ते विच्छायघा दिवं प्रविविशुः कंसो विमर्शाकुलो मल्लादीननुदुत्परेद्यवि हरेरुत्सन्नशत्रोर्वधे ।। ८४ ॥ अथ अजितो रोषच्छुप्तधिया रोषेण छुप्तया स्पृष्टया धिया हेतुभूतया रोष्टुं हन्तुमभितः सर्वत आलिष्टानागतान् योधान भटान् मर्मस्पृशा मर्मवेधिना धनुषः खण्डेन जघान। कीदृशान् योधान् । द्विषतां रेशकान् हिसकान् । ते योधाः विच्छायदधा गच्छदधाः सन्तः दिवं भगवल्लोकं प्रविविशुः । कंसो विमर्शाकुलश्चिन्तया व्याकुलोऽपि मल्लादीन् परेद्यवि ऊर्ध्वदिने उत्सन्नशत्रोरपि हरेधेऽनुदत् प्रेरितवान् ।-छुप्तेति । १४१८ छुप स्पर्श । कर्मणि क्तः रोष्टुम् । १४१९ रुश १४२० रिश हिंसायाम् । रुशेस्तुमुन् । रेशकान् । शेवुल् । आलिष्टान् । १४२१ लिश गतौ । कर्तरि क्तः । मर्मस्पृशा । १४२२ स्पृश संस्पर्शने । 'स्पृशोऽनुदके-' इति क्विन् । विच्छाअदिति । १४२३ विच्छ गतौ । 'गुपूधूपविच्छि-' इत्यायान्ताच्छता। प्रविविशुः । १४२४ विश प्रवेशने । लिट् । विमर्शेति । १४२५ मृश आमर्शने स्पर्शनं तत् । घञ् । अनुदत् । १४२६ णुद प्रेरणे। लड्। उत्सन्नेति । १४२७ षद्ल विशरणगत्यवसादनेषु । कर्मणि क्तः। शत्रोः । १४२८ शदल शातने । अस्मापिणजन्तात् 'शादेहखश्च' इति भोजोक्तेः कुन् । प्रच्छादय उदात्तेतः अनुदात्ता विच्छिवर्जम् ॥ मित्रैः संमिलमान एत्य नगरोद्यानं विमुञ्चभियं गोपानां भयलोपिवाग्भिरबलाविन्नानुलेपं वहन् । १. स्पर्शने' इति पाठः. २. 'शातेः ' इति पाठः, कौमुद्यां तु 'रुशातिभ्यां कुन् शातयतीति शत्रुः । प्रज्ञादौ पाठाद्रखत्वम्' इत्युक्तम्.