पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम्। नूत्या किं भयधूतविद्रुतगुवल्लोकं तदा तद्भव- कोदण्डं कुवमानमैक्षि दलितं भोजेश्वराकूतवत् ॥ ८२ ।। स क्षौमेण स्फुडितं छादितं सजा निचुलित संवृतं चैवंरूपमप्यत्रोड्यशोभमनाच्छाद- नीयप्रभं धनुर्गेहकोडतले गृहस्य संवृतप्रदेशेऽन्तर्भागे दृष्ट्वा मोदे निमग्नः सत् क्षणातू शीघ्रमगुरिष्टोद्धृतवान् । नूत्या किं बहुप्रशंसया किम् । न किचित् कार्यम् । तदा ध्रुवत् स्थिरीभवत् तत् कोदण्ड भयधूतविद्रुतगुवल्लोकं भयेन धूतो वेपितो विद्रुतो धावितो गु- बत् पुरीषमुत्सृजश्व लोको जनो यस्मिशब्दे तथा कुवमानं शब्दायमानं भोजेश्वरस्य कंसस्याकूतमभिप्राय इव दलितं खण्डितमैक्षि सर्वैर्दष्टम् ॥-स्फुडितमिति १३९१स्फुड १३९२ चुड १३९३ ब्रुड संवरणे । क्रुडेलप्येके । स्फुडेः कर्मणि चः। निचुलितम् । चुडेः प्राग्वत् क्तः । अब्रोड्येति । त्रुडेयेत् । कोडेति । ब्रुडेर्घन्। कुलितः। १३९४ कुड १३९५ रुड निमज्जने इति चैके। कुड़ेः कर्तरि क्तः । ब्रश्चादय उदात्ता उदात्तेतः । अगुरिष्ट । १३९६ गुरी उद्यमने । उद्धरणं तत् । अयमुदात्तोऽनुदात्तेत् । लुड्' । नूल्या । १३९७ णू स्तवने । क्तिन् । धूतेति ! १३९८ धू विधूनने । क्तः । सुवदिति । १३९९ गु पुरीषोत्सर्ने । उवट् । शता। ध्रुवत् । १४०० च गतिस्थैर्ययोः । ध्रुव इत्येके । द्वयोः सह शता । अनजन्तस्य सेट्त्वं भेदः । गुधू अनुदात्तौ । ध्रुव उदात्तः । शूप्रभृतयः परस्मैभाषाः । कुवमानम् । १४०१ कुङ् शब्दे । शानच् । आकृतेति । कू- डित्येके । क्तः । वृत् । कुटादिर्वृत्तः।। अनेन धनुर्भशन कंसस्य महद् भयं जातमित्याह- व्यापारेऽत्र तदामरानपिरियन्नाशा पियन्नाधित- क्रौर्योत्क्षीणधनुष्प्रसूतनिनदः कसे व्यकारीद्गरम् । येनानादरवान्धृतोऽपि स चलन्वृच्छन्किमित्युत्सृज- न्धैर्य मग्नमनाश्च द्रुजि चिरं भुग्नाननस्तस्थिवान् ॥ ८३ ।। तदा अदृशे व्यापारेऽमरानपि रियन्प्राप्नुवन्नाशा दिशः पियन्च्यामुवनाधितक्रौर्यो- क्षीणधनुष्प्रसूतनिनदः । आधितक्रौर्यः सम्यग्धारितक्रौर्यः, उत्क्षीण उद्गतः धनुषा प्रसूतः प्रेरितश्च यो निनदः स कंसे गरं विषं व्यकारीक्षिप्तवान् । अत्यन्तपीडामकरोदित्यर्थः । येन सोऽनादरवानिरस्तबहुमानः सन् धृतोऽवस्थितोऽपि चलन्वेपमानः किमिद मिति पृच्छ- न्धैर्यमुत्सृर्जस्त्यजन्हगुजि मनमनाश्च चिरं भुनाननोऽवनतमुखस्तस्थिवान्स्थितोऽभूद ॥-- व्यापार इति । १४०२ पृङ् व्यायामे ! स च प्रवृत्तिमात्रम् । प्रायेण व्यापूर्वोऽयम् । घञ् । अमरान् । १४०३ मृङ्प्राणत्यागे। अच् । कुङादयोऽनुदात्ता आत्मनेभाषाः । कुवर्जम् । रियन् । पियन् । १४०४ रि १४०५ पि गतौ । द्वयोः शता। आधिवेति । १४०६ धि धारणे । गताविति द्रुमे । कर्मणि क्तः । उत्क्षीणेति । १४०७ क्षि निवास- १ 'क्रुड भृड निमजने' इति धातुपाठे. २. 'उद्यमे ' इति पाठः,