पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । कर्तरि क्तः। तृम्फाय । तृम्फेर्धञ् । तोपेति । १३०९ तुप १३१० तुम्प १३११ तुफ १३१२ तुन्फ हिंसायाम् । तुपेर्घञ् । अतुम्पकान् । तुम्पेषुल् । वितुफती । संतु- म्फती ! तुफितुम्फ्योः शतरि डीप् । उपितेति । १३१३ वफ १३१४ इन्फ उ- लेशे । आद्योऽपि फान्त इत्येके । दृपेः कर्मणि क्तः । अफिता । दृम्फेः कर्मणि क्तः । नकारलोपः । ऋफन्ती । १३१५ ऋफ १३१६ ऋम्फ हिंसायाम् । ऋफेः शतार डीप् । ऋम्फेति । ऋम्फेर्घन् । सुगुफितैः । १३१७ गुफ १३१८ गुन्फ ग्रन्थे । गुफेः कर्मणि क्तः । गुम्फतीति । गुम्फेः शतरि डीप् ॥ पीयूषोभितहेमकुम्भविशुभद्वक्षोजशुम्भत्तमा दृब्धस्रग्धरवृत्तकैश्यविधितां शोभा जुडन्योऽजुनन् । नार्यः संमृडदालिकेलिपृडिता यस्मिन्पृणन्त्यः प्रिया- नित्यं तैर्वृणिता मृणालकमनीयाङ्ग्यो वितोणाशयाः ॥ ७५ ।। यस्मिन्नार्योऽजुनन्समचरन् । कीदृश्यः । पीयूषेणोभितः पूरितो यो हेमकुम्भ- स्तद्वद्विशुभयां शोभमानाभ्यां वक्षोजाभ्यां शुम्भत्तमा अत्यन्तं शोभमानाः । दृब्धसजो ग्रथिताया मालाया धरै धारकं वृत्तं भङ्गयनुरूपं बद्धं च यत्कैश्यं केशसमूहस्तेन विधितां विहितां शोभा जुडन्त्यः प्राप्नुवत्यः । संमृडदालिकेलिपृडिता संमृडन्तीनां सुखायमानाना- मालीनां केल्यां पृडिताः सुखिताः । प्रियान्मृणन्त्यः । तैनित्यं वृणिताः प्रीणिताः । मृणालकमनीयाइयो मृणालवत्कोमलमङ्गं यासां ताः । वितोणाशयाः। वितोणो विगत- कौटिल्य आशयो यास ताः। अनेन नगरगर्भस्य सुखकरत्वमुक्तम् ॥–उभितेति । १३१९ उस १३२० उन्भ पूरणे । उभेः कर्मणि क्तः। कुम्भेति । केन जलेन उभ्यते इति कुम्भः । कुम्भेः कर्मणि घञ् । पृषोदरादित्वादकारलोपः। विशुभत् । शुम्भदिति । १३२१ शुभ १३२२ शुन्भ शोभार्थे । हिसायां च द्रुमे । द्वयोः शता । दृब्धेति । १३२३ घभी ग्रन्थे । कर्मणि क्तः । तेति । १३२४ घृती हिसाग्रन्थनयोः । प्रा- ग्वत् क्तः । विविताम् । १३२५ विध विधाने । प्राग्वत् क्तः । जुडन्यः । १३२६ जुड गतौ । जुन इत्येके । जुडेः शतरि डीप् ! अजुनन् । जुनेलँड् । संमृडदिति । १३२७ मृड सुखने । शता । पृडितेति । १३२८ पृड च । कर्मणि क्तः। पृणन्त्यः । २३२९ पृषण प्रीणने । शतरि डीप् । वृणिताः । १३३० वृणेति च भाष्ये । कर्मणि तः। मृणालेति । १३३१ मृण हिंसायाम् । 'तमिबिडिमृणिकुलिपलिपश्चिभ्यश्च' इति भोजोक्तेः कालन् । तोणेति । १३३२ तुण कौटिल्ये । घम् ॥ चाणूरादयोऽपि पुरे सुखं स्थिता इत्याह--- ईशस्य पुण्यसुगमस्य वधं मुणन्तो मल्लाश्च यत्र चुकुणुः शुनका इवोच्चैः ।