पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । एवं राजमार्गसंचारैण तत्रत्यभक्कानन्दमुक्त्वा गोपुरान्तर्गतानां सुकृतातिशयेन तत्प्राप्तिमाह- तुदन्कुचरिताशुभे प्रणुदमान इष्टं दिश- न्प्रभृष्टपललाक्षिपन्नरिमति कृषन्माधवः । ऋषन्नजुषत क्रमानगरगर्भमुद्वेजय- नलग्नमनसः खलानवशलजमानाङ्गनम् ।। ७२ ।। माधवः क्रमात् तत्र तत्र विलम्बमान ऋषन् गच्छन् नगरगर्भमभ्यन्तरप्राकारान्तर्भा- गमजुषतासेवताश्रितवान्। तत्रत्यजनं प्रीणितवानिति वा । कीदृशं कुर्वन्नित्यत्राह-कुच- रितान् रजकादीस्तुदन् । मालाकारादीशुभे प्रणुदमानः प्रेरयन् । तेषामेव इष्टं ददन्। (द) प्रभृष्टं पक्कं पललं मांसं यैस्तान् दुष्टान् क्षिपन् प्रेरयन् निरस्यन् । अत एव अरि- मतिं कृषन् विलिखन् विदारयन् । अलग्नमनसो दुर्व्यापारेषु अलममलज्जितं मनो येषां तान् खलान् उद्वेजयन् भीषयन् कम्पयन् वा एतानि षट् तत्कालविशेषणानि । कीदृशं नगरगर्भम् । भगवत्प्रेम्णा अवशा व्याकुला लजमानाः सलजा अङ्गना यस्मिंस्तम् ॥-- तुदन्निति । १२८१ तुद व्यथने । शता । अणुदमानः । १२८२ णुद प्रेरणे शानच् । दिशन् । १२८३ दिश अतिसर्जने । दानं तत् । शता । प्रभृष्टेति । १२८४ भ्रस्ज पाके। कर्मणि क्तः । कित्वात् संप्रसारणम् । 'स्को:-' इति सलोपः । क्षिपन् । १२८५ क्षिप प्रेरणे । निरसननिन्दादयोऽपि प्रेरणभेदा एव । कृषन् । १२८६ कृष विलेखने । तदत्र हलकम । द्वयोः शता । तुदादयोऽनुदात्ताः खरितेतः । ऋषन् । १२८७ ऋषी गतौ । शता उदात्त उदात्तेत् । अजुषत । १२८८ जुषी प्रीतिसे- वन्योः । लड् । उद्वैजयन् । १२८९ ओविजी भयचलनयोः। प्रायणोत्पूर्वः । अस्मा- णिचि शता । १२९० ओलजी १२९१ ओलस्जी बीर्डने । लजेः कतरि क्तः । लज्जमानेति । लस्जेः शानच् । सस्य जश्त्वम् । 'ओलजी ओलस्जी बीलने' इति चान्द्रमतं माधवदूषितम् । जुषादय उदात्ता अनुदात्तेतः ॥ नगरगर्भ वर्णयति पञ्चभिः- वृक्णव्याचरसोञ्छती फलगणानव्युच्छितायां निशि स्लान्ती नछंति मिच्छिता सुजनता यस्मिन्हितं जर्जती । चर्चन्ती कटु झर्झती बुधजनं दोषं त्वचित्वर्चती नित्यं भूपतिमुब्जनोज्झितमना यत्रास्त खल्या सुखम् ॥७३॥ सुजनता सज्जनसमूहः । 'ग्रामजन-' इति तल् । 'सामूहिकेषु तदन्तविधिरिष्यते' इति जनान्तादपि । मिच्छिता क्लेशिता यस्मिन् न ऋच्छति प्राप्नोति ! कीदृशी सुजनता। १. 'नीलने' इति पाठः.