पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। असौ तो पदे चरणे पदेनातिक्याक्रम्य चिबुके पाणिना चातिग्नुवन्नाक्रमवैज्वीमवक्र- देहां मनोज्ञाकृतिं चक्रे । कीदृशः । सनुवतां हिंसतां वधे दधृक् प्रगल्मः । किं च 'मम गृहानेहि इति याच्यापरामदनुवतीं व्याजमकुर्वाणामव्याजभक्तामिमामेष्यामीत्युक्त्वा अमु- चत् । अत्र हेतु:-समृद्धकरुणः । कटाक्षैधृति धैर्य क्षिण्वन् नाशयन् ॥-आतिश्येति । १२६६ तिक १२६७ तिग च एतावप्यास्कन्दने । आद्यालयप् । अतिमुवन् । तिगेः शता । सध्नुवताम् । १२६८ षध हिंसायाम् । शता । दधृक् ।१२६९ अिधृषा प्रागल्भ्ये । 'ऋत्विग्दधृक्-' इति क्विप् । अदभुवतीम् । १२७० दन्भु दैम्भे । दम्भो लोकरञ्जनार्थ कर्मानुष्ठानम् । शतरि डीप् । समृद्धेति । १२७१ ऋधु वृद्धौ । अयमक- मेक: सकर्मकश्च । कर्तरि कः। क्षिण्वन् । *१२७३रि १२७४ क्षि १२७५ चिरि १२७६ जिरि १२७७ दाश १२७८ लै हिंसायाम् । 'एषु छान्दसेषु क्षिधातुः सर्वथा लोकेऽस्ति' इत्युक्तस्य क्षेः शता ॥ कुजावैरूप्यहरणानन्तरं केऽपि भाग्यवन्तो भगवन्तं ज्ञातवन्त इत्याह- क्ष्मां नुवन्मखचमिव्यसनानि रिणव- अक्षिण्वतां चिरयणैरपथं जिरिण्वन् । कंसं प्रदाश्यमतिदुईवमुद्द्दूषु- श्छन्दः श्रुतोऽपि स हि कैश्विबोधि लोके ॥ ७१ ॥ छन्दःश्रुतश्छन्दसि वेदे एवं श्रुतः प्रसिद्धोऽपि स लोके मनुष्याणां मध्ये कैश्चित् भाग्य- वद्भिरबोधि ईश्वरत्वेन ज्ञात आसीत् । कीदृशः । मां महीं दनुवन् पालयन् मखचमिना ऋतुगसहध्या(रा)शिनां देवानां व्यसनानि दुःखानि रिण्वन् नाशयन् ऋक्षिण्वता हिंस- कानां चिरयणैर्वधैरपथं कुमार्ग जिरिण्वन् नाशयन् । प्रदाश्यं हिंस्यमतिदुर्द्रवमन्येषामत्यन्तं हिसितुमशक्यं कंसमुद्दुदुघुरुरैरधिकं हिसितुमिच्छुः ॥--दन्नुवन्निति।१२७९ दयघातने पालने च शता। मखचमीति । १२८० चमु भक्षणे । णिनिः। रिण्वन् । रि क्षि इत्यत्रादौ धातोः शता । ऋक्षिण्वताम् । 'आद्य ऋक्षीत्येके' इत्युक्तस्य धातोः शता । चिरयणैः । चिरिबातोल्युट् । जिरिण्वन् । जिरेः शता । दुईवम् । दुधातोः खल् । उडुदूधुः । दुट् इत्यपि केचित् । इत्यस्य सन्युः । केचित् 'छ- न्दस्यह व्याप्तौं' इति पठित्वा दधादिर्लोकेऽप्याहुः । एतदेव छन्दःश्रुतोऽपीतिवादेन योतितम् । तिकादय उदात्तेतः । रिक्षिद्वदुड्वर्जमुदात्ताः । दुड्त्वात्मनेभाषः । वृद । खादयो वृत्ताः ॥ १. 'गतौ च' इति धातुपाठे. २. 'दम्भने' इति धातुपाठे. ३. धातुपाठे तु 'द' इत्ये- चोपलभ्यते, तथाच 'दुर्दवम्' इत्येव पाटः स्यात्. *. १२७२ 'अह व्याप्तौ' नोदाहृतः.