पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तृष्णेति । १२२८ तृष पिपासायाम् । 'तृषिशुषिरसिभ्यः कित्' इति मन् प्रत्ययः । हृष्य । १२२९ हृष तुष्टौ । लोट् ॥ रुष्यद्रिष्यदरातिडेपक विभो कोपादिगोपोन ते किं चायोप्यविरोपिलोपक न वा लोभादिसंक्षोभिता । नभ्यांस्तुभ्य विभो जयेति नुवते क्लिधन्प्रमेयगुर्ज क्ष्विद्यन्नृद्धिमगृनवेऽपि स विमृश्याक्षीयमाणां ददौ ।। ६७ ।। वृष्यतां कुप्यतां परान रिष्यतां हिसतां च रिपूणां डेपक क्षेपक हे विभो, ते तव को- पादिभिर्गोपो व्याकुलत्वं न । किंच। अयोप्यविरोपिलोपक अयोप्यविरोपिनाममोह्यमो. हयितॄणां लोपक मोहक, ते लोभादिसंक्षोभिता वा न । त्वं नभ्यान् हिंस्यान् तुभ्य हिं- सय । विभो त्वं जयेति नुवते तस्मै क्लियन् कृपया आद्रीभवन् । अमेघद्वजं वर्धमानां पीडां दिवद्यन् मोचयंश्च स विमृश्य खयमेव विचिन्त्य अगृनवेऽनिच्छवेऽक्षीयमाणा- मक्षीणामृद्धिं ददौ ॥ष्यद्रिष्यदिति । १२३० रुष रोषे । १२३१ रिष हिसायां चेत्येके । द्वयोः शता। डेपक इति १२३२ डिप क्षेपे । ण्वुल् । कोपादिगोप इति । १२३३ कुप क्रोधे । १२३४ गुए व्याकुलत्वे । द्वयोर्धम् । अयोप्यविरोपिलोपकेति । १२३५ युपु १२३६ रुषु १२३७ लुपु विमोहने । क्रमेण ण्यणिनिण्वुलः । लो- भादिसंक्षोभिवेति । १२३८ लुभ गाय । १२३९ क्षुभ संचलने । द्वयोर्धञ् णिनिश्च (१) नभ्यान् तुभ्य । १२४० णभ १२४१ तुभ हिंसायाम् । यल्लोट् च । क्लियन् प्रमेछन् श्विद्यनिति । १२४२क्लिदू आर्द्राभावे । १२४३ निमिदा स्नेहने । १२४४ जिश्वि- दा स्नेहनमोचनयोः । प्रयाणां शता। मिदेस्तु "मिदेर्गुणः' इति गुणः । ऋद्धिम् । १२४५ ऋधु वृद्धौ । क्तिन् । अग्रनवे । १२४६ गृधु अभिकालायाम् । 'त्रसि. गृधि-' इति नुः । वृत् । वृषादयो दिवादयश्च वृत्ताः । दिवादयस्त्ववृत्कृता इलेके । तेन मृश्यति क्षीयते इत्याद्यपि। तत्र मृशेयप् । शीयतेः शानच् । शमादय उदात्ता उदात्तेतः ॥ अथ कुजानुग्रहकथामाह- सुन्वत्प्रियं तमथ रागसिताशितान- मारोन्मितास्त्रनिचयास्तृतमानसान्ता । कुब्जा कृतारिबलमैक्षत वृण्वती सा पात्रं समीरधुतसौरभधूतभृङ्गम् ॥ ६८ ॥ अथ सा कुब्जा सैरन्ध्री सुन्वत्प्रियं सुन्वन्तो यज्ञं कुर्वन्तो द्विजाः प्रिया यस्य तं श्री- कृष्णभैक्षत । कीदृशी कुब्जा । रागसिता रागेण बद्धा । शितानेण मारोन्मितेन काम- क्षिप्तेनाननिचयेनास्तृतं छादितं मानसान्तं यस्याः सा । तथा--समीरधुतेन वायुचलि- १. 'रुष हिंसायाम्' इति धातुपाठे. २. त्रयोऽप्यनुदिताः पुस्तके.