पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। सहमानः । आखिद्यदास्य ईषत् खिद्यन्मुखः कीदृशं मालिकवरम् । अक्रुधं क्रोधहीनम् क्षुध्यतां युभुक्षमाणानां भक्तमन्नप्रदम् । शुद्धं सिद्धप्रार्थितं च ॥-राध्यदिति ।१९८० राधोऽकर्मकादृद्धावेव । वृद्धयर्थ इव । अकर्मकादेव राधः श्यन् । अस्य तु सिद्धिद्रोहदै- वपालोचनादयोऽर्थाः । शता दैत्यावित् । १९८१ व्यध ताडने । तच्च प्रायेण विदा- रणपर्यन्तम् । विधि नहि वृतिवृषि-' इत्यादिना दीर्घः । अपुषत् । १९८२ पुष पुष्टौ । अयमकर्मकोऽपि । इतो गणान्ताः पुषादयः । तेन 'पुषादिद्युतादि-' इत्यड् । शोषतोष- दोषेति । १९८३ शुष शोषणे । ११८४ तुष प्रीतौ । ११८५ दुष वैकृत्ये । वैकृत्यं विकृतता । त्रयाणां पञ्। आश्लिष्टेति । ११८६ श्लिष आलिङ्गने । कर्मणि क्तः । शक्यन् अशक्यमानेति । ११८७ शक विभाषितो मर्षणे । विभाषित इत्युभयपदीनां पूर्वाचा- यसंज्ञा । शतृशानचौ। आस्विदिति । ११८८ जि विदा पात्रप्रक्षरणे । शता । अक्रुधम् । ११८९ क्रुध कोपे । भावे क्विम् । क्षुध्यदिति । ११९० क्षुध बुभुक्षायाम् । शता । शुद्धम् । सिद्धति । ११९१ शुध शोचे । ११९२ षिधु संराद्धौ । संसिद्धिः सा । द्वयोः कर्तरि काः॥ रद्धारये सोऽयमनश्वराय तृप्यन्मना सजनदुहेऽस्मै । मुग्धस्मितस्नोहिमुखाय मालां स्निह्यन्ददौ सादरमस्तवीच्च ॥६४॥ सोऽयमस्मै स्निह्यन्सादरं माला ददौ अस्तवीच । कीदृशाय । अनश्वराय निलाय । मुग्धस्सितस्नोहिमुखाय मुग्धस्मितोद्गिरणशील मुखं यस्य तस्मै । रद्धारये निहतशत्रवे। दृप्तजनदुहे दुष्टजनहन्त्रे । तृप्यन्मनाः प्रीणितान्तरात्मा ॥शब्देति । १२९३ रध हिंसा- संराध्योः । संराद्धिः पाकः। कर्मणि क्तः । अनश्वराय । ११९४ श अदर्शने । इ. ग्नश-' इति क्वरम् । तृप्यदिति । ११९५ तृप प्रीणने । तच तृप्तिस्तर्पणं च । शता। दृप्तेति । ११९६ ६प हर्षमोहनयोः । मोहनं गर्वः। मोचनयोरिलेके । कर्तरि क्तः। द्रुह इति । ११९७ दुह जिघांसायाम् । क्विम् । नुग्धेति । ११९८ मुह वैचित्ये । अविवेकस्तत् । कर्तरि क्तः । नोहीति । ११९९ रुणुह उद्गिरणे । णिनिः । स्निह्यन् । १२०० व्णिह प्रीतौ । शता । युत् विकल्पितेट उदात्तेतो रधादयो वृत्ताः ॥ अशाम्यदासापि तमी नमामि दुमिप्रियं श्रान्तिहरं भवन्तम् । भ्राम्यामि भोः क्षाम्य ममापराधं क्लान्तं मनो माद्यति दर्शनान्ते ॥६५॥ अह्मशाम्यदात्मा अशान्तमना अपि त्वां नमामि । तमी त्वयि कासाशीलः । संसारेण पीडाशीलो वा । दमिप्रियं दमशीलानामिष्टम् । अहं भ्राम्यामि अनवस्थितो भवामि । भवा. धावित्वर्थात् । भो मम अनादरादिकमपराधं क्षाम्य क्षमख । क्लान्तं तवादर्शनात् पी- डितं मनस्ते दर्शनान् माद्यति । श्रान्तिहरं संसरणदुःखनिरासकम् ॥-अशाम्यदिति । १२०१ शमु उपशमे । शतरि 'शमामष्टानाम्-'इति दीर्घः । तमीति १२०२ तमु १. 'गरण' इति पाठः.