पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। संपर्चन इत्येके । अवयव इत्यन्ये । अव्यक्ते शब्द इत्यपरे। पृजि इत्यप्येके शिञ्जिपिज्योः शा- नच् । पृझेः कतरि क्तः । वृज्यविवृतीति । १०२९ वृजी वर्जने । इदिदिति केचित् । तस्मात् क्यप् । इदित्त्वपक्षे णिनिः पृक्तेति । पृजितेति । १०३० पृजी संपर्चने । इदि- दिति केचित् । द्वयोः कर्मणि क्तः। ईरादय उदात्ता अनुदात्तेतः । सूनुः । १०३१ षङ् प्राणिगर्भविमोचने । 'सुवः कित्' इती नुः । अधिशायी। १०३२ शीङ्खने । उदात्ता- वात्मनेभाषौ । शीडो णिनिः । युवद्भिः । १०३३ यु मिश्रणे : अमिश्रणेऽप्येके । शता । अत्यन्तभक्तानामवस्थासाह- केऽप्यल्परावं नुनुवुः खलेषु क्षुरक्ष्णुतात्मानममुं स्नुतास्त्राः । सोऽनूर्गुतोऽद्यौजनसुत्कुवत्या काश्येक कामं स्तुवतां ब्रुवाणः ॥४७॥ केऽप्यमेयभाग्या अमुं नुतानाः सुतो भक्तिक्लिन्नहृदयतया स्रुतो बाष्पप्रवाहो येषां तादृशाः । अत एव गद्गदेनाल्पो रावो यस्मिंस्तथा नुनुवुस्तुष्टुवुः । कीदृशम् । खलेषु दुर्ज- नेषु क्षुरवत् क्ष्णुतस्तेजितस्तीक्ष्णः आत्मा मनो यस्य तम् । भगवतो भक्तेषु कृपाति- शयमाह-सोऽनूर्णतोऽनाच्छन्नखरूप एवात्मानं प्रकाशयन् । कुवत्या क्वणन्त्या काच्या स्तुवतां काममिष्टं युष्माकं भवत्विति ब्रुवाण इवाद्यौत् तेषामभिमुखमगच्छत् । जनान् तत्तत्कर्मसु सौति प्रेरयतीति जनसुत् । ईश्वर इति वा ॥रावेति । १०३४ रु शब्दे । 'कृत्यल्युटो बहुलम्' इति बाहुलकाव धम् । नुनुवुः । १०३५ णु स्तुतौ । लिट् । क्षुरेति १०३६ टुक्षु शब्दे । 'ऋजेन्द्र-' इत्यादिना रनि निपातितः।क्षौति वपनकाले कृदिति स्वन- तीति क्षुरः । श्णुतेति । १०३७ क्ष्णु तेजने । कर्मणि क्तः । नुतेति । १०३८ ष्णु प्रस्सवणे । कर्तरि तः। यौत्यादय उदात्ताः परस्मैभाषाः। अनूर्णत इति । १०३९ ऊर्गुञ् आच्छादने। उदात्त उभयतोभाषाः। कर्तरि तः। 'वाच्य ऊर्णोर्णबद्भावः' इति णुधातुवेदका- च्त्वादनिटत्वम् । अद्यौत् । १०४० द्यु अभिगमने । लड् । 'उतो वृद्धिः-' इति वृद्धिः । जनसुत् ॥ १०४१ षु प्रसवैश्वर्ययोः। प्रसवोऽनुज्ञा । 'या पीडा श्रवसापि सौति महतीमौ- सुक्यदुःखासिकाम् । इति प्रयोगादुत्पादनमपि प्रसवः । तस्मात् क्विप् । कुवत्या । १०४२ कु शब्दे । शतरि डीप् । अनुदात्ताः परस्सैभाषाः । स्तुवताम् । १०४३ ष्टुञ् स्तुतौ । शता । अवाणः । १०४४ जून व्यक्तायां वाचि । शानच् । अनुदात्तावुभयतोभाषौ । पुरान्तर्भागं गतस्य महामार्गप्राप्त्या सर्वसुकृतिजनानुग्रहमाह---- इत्यः स्वधीतोपनिषद्भिरेषामधीत्यरूपः स वियन्क्रमेण । इयञ्जनं राजपथं समायाद्वाताकुलोद्भातपताकमीशः ॥४८॥ स ईशो वियन् संचरन् क्रमेण राजपथं समायात् प्राप । कीदृशः । स्वधीतोपनिष- द्भिर्वेदान्तपारगैरिसः प्राप्तुं शक्यः । एषां ज्ञानिनामधीसं स्मरणीयं रूपं यस्य सः । कीदृशं राजपथम् । इयअनमियन्त इतस्ततो गच्छन्तो जना यस्मिस्तम् । तथा वातेन आकुला १. 'ततस्ततः' इति पाठः,